________________
स्याद्०
।।१७५ ।।
"
त्व-पितृव्यत्व-भ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् ? । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाभावममबुध्यैवाऽज्ञात्वैव 'एवकारोऽवधारणे' स च तेषां सम्यग्ज्ञानस्याभाव एव, न पुनर्लेशतोऽपि भाव इति व्यनक्ति । ततस्ते विरोधभीताः- सच्चासत्वादिधर्माणां बहिर्मुखशेमुष्या संभावितो वा विरोधः सहानवस्थानादिः तस्माद् भीतास्त्रस्तमानसाः अत एव जडाः; तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खाः परवादिनः, तदेकान्तहताः - तेषां सादिधर्माणां य एकान्त इतरधर्मनिषेधेन स्वाऽभिप्रेतधर्मव्यवस्थापन निश्चयस्तेन हता इव हताः पतन्ति स्खलन्ति - पतिताश्च सन्तस्ते न्यायमार्गाऽऽक्रमणे न समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः ।
यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते, लोके हि सन्मार्गच्युतः पतित इति परिभाष्यते । अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्छामतुच्छामासाद्य निरुद्धवाक्प्रसरो भवति, एवं तेऽपि वादिनः स्वाऽभिमतैकान्तादेन युक्तिसरणिमननुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतोऽकिञ्चित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति ।
अत्र च विरोधस्योपलक्षणत्वाद् वैयधिकरण्यम्, अनवस्था, संकरः, व्यतिकरः, संशयः, अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येतेऽपि परोद्भाविता दोषा अभ्यूद्याः । तथाहि - सामान्य-विशेषात्मकं वस्तु
Jain Education International
For Private & Personal Use Only
॥॥१७५॥
www.jainelibrary.org