SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१७६॥ ००००००००००००००००००००००००००००००००००० इत्युपन्यस्ते परे उपालब्धारो भवन्ति, यथा सामान्य-विशेषयोविधिप्रतिषेधरूपयोविरुद्धधर्मयोरेकत्राभिन्ने वस्तुनि असंभवात् शीतोष्णवदिति विरोधः। न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याऽधिकरणं भवितुमर्हति, एकरूपतापत्तेः, ततो वैयधिकरण्यमपि भवति । अपरं येनाऽऽत्मना सामान्यस्याधिकरणं येन च विशेषस्य, तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् । एकेनैव चेत् । तत्र पूर्ववद् विरोधः, द्वाभ्यां वा स्वभावाभ्यां सामान्य-विशेषाख्यं स्वभावद्वयमधिकरोति, तदाऽनवस्था- तावपि स्वभावान्तरा-18 भ्याम् , तावपि स्वभावान्तराभ्यामिति । येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाऽऽकारेण निश्चेतुमशक्तेः संशयः । ततश्चाऽप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव, अतः स्याद्वादममवेदिभिरुद्धरणीयास्तत्तदुपपत्तिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य-विशेषयोर्विधि-प्रतिषेधरूपयोस्तेषामवकाशात् । ____ अथवा विरोधशब्दोऽत्र दोषवाची, यथा विरुद्धमाचरतीति दुष्टमित्यर्थः । ततश्च विरोधेभ्यो विरोधवैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता ॥१७६।। भवन्ति । इति काव्यार्थः ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy