SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ स्याद् ॥१७७॥ ०००००००००००००००००००००००००००००००००००८ अथाऽनेकान्तवादस्य सर्वद्रव्यसर्वपर्यायव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगव- 18 तस्तत्वाऽमृतरसास्वादसौहित्यमुपवर्णयन्नाह स्याद् नाशि नित्यं सदृशं विरूपं वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्वसुधोगतोद्वारपरम्परेयम् ॥ २५॥ स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम् , तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद् ना शिविनशनशीलमनित्यमित्यर्थः, स्यान्नित्यम्- अविनाशधर्मीत्यर्थः, एतावता नित्यानित्यलक्षणमेकं विधानम् । तर्थ स्यात्सदृशमनुवृत्तिहेतुसामान्यरूपम् , स्याद् विरूपं विविधरूपम् - विसदृशपरिणामात्मकं व्यावृत्तिहे. तुविशेषरूपमित्यर्थः, अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः। तथा स्याद वाच्यं वक्तव्यम , स्याद न वाच्यमवक्तव्यमित्यर्थः, अत्र च समासेऽवाच्यामिति युक्तम,8 तथाऽप्यऽवाच्यपदं योन्यादौ रूऽमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः, एतेनाऽ- | भिलाप्याऽनभिलाप्यस्वरूपस्तृतीयो भेदः । तथा स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः, स्या क्षणमिति, अनेन सदसदाख्या चतुर्थी विधा। १७७॥ हे विपश्चितां नाथ ! संख्यावतां मुख्य !, इयमनन्तरोक्ता निपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्र. 8००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy