Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 185
________________ स्याद्० ।।१७५ ।। " त्व-पितृव्यत्व-भ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् ? । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाभावममबुध्यैवाऽज्ञात्वैव 'एवकारोऽवधारणे' स च तेषां सम्यग्ज्ञानस्याभाव एव, न पुनर्लेशतोऽपि भाव इति व्यनक्ति । ततस्ते विरोधभीताः- सच्चासत्वादिधर्माणां बहिर्मुखशेमुष्या संभावितो वा विरोधः सहानवस्थानादिः तस्माद् भीतास्त्रस्तमानसाः अत एव जडाः; तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खाः परवादिनः, तदेकान्तहताः - तेषां सादिधर्माणां य एकान्त इतरधर्मनिषेधेन स्वाऽभिप्रेतधर्मव्यवस्थापन निश्चयस्तेन हता इव हताः पतन्ति स्खलन्ति - पतिताश्च सन्तस्ते न्यायमार्गाऽऽक्रमणे न समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः । यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते, लोके हि सन्मार्गच्युतः पतित इति परिभाष्यते । अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्छामतुच्छामासाद्य निरुद्धवाक्प्रसरो भवति, एवं तेऽपि वादिनः स्वाऽभिमतैकान्तादेन युक्तिसरणिमननुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतोऽकिञ्चित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति । अत्र च विरोधस्योपलक्षणत्वाद् वैयधिकरण्यम्, अनवस्था, संकरः, व्यतिकरः, संशयः, अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येतेऽपि परोद्भाविता दोषा अभ्यूद्याः । तथाहि - सामान्य-विशेषात्मकं वस्तु Jain Education International For Private & Personal Use Only ॥॥१७५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224