Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 184
________________ स्याद्० ॥१७४॥ हेतुमाह - " उपाधिभेदोपहितम्" इति - उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वम् तेनोपहितमर्पितम् - असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्वं न विरुद्धम्, सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम् - उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे । अयमभिप्रायः- परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानवस्थानलक्षणो विरोधः । न चाऽत्रैवम्; सत्वाऽसत्त्वयोरितरेतरमविष्वग्भावेन वर्त्तनात् । न हि घटादौ सत्वमसत्त्वं परिहृत्य वर्तते, पररूपे - णाsपि सङ्गात् तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक्यम्, तेनैव त्रिभुवनार्थसाध्याऽर्थक्रियाणां सिद्धेः । न चाऽसत्त्वं सत्त्वं परिहृत्य वर्तते, स्वरूपेणाऽप्यसत्त्व प्राप्तेः तथा च निरुपाख्यत्वात् सर्वशून्यतेति । तदा हि विरोधः स्याद्, यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैत्रम्; यतो न हि येनैवांऽशेन सच्वं तेनैवाऽसत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम्, अन्योपाधिकं पुनरसच्चम् - स्वरूपेण हि सच्चं पररूपेण चासत्त्वम् । दृष्टं ह्येकस्मिन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वम्, अन्योपाधिकाचेतरे वर्णाः- नीलत्वं हि नीलीरागाद्युपाधिकम्, वर्णान्तराणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं मेचकरनेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिर्दृष्टान्तैः सत्त्वासत्त्वयोर्भिन्नदेशत्वप्राप्तिः, चित्रपटाद्यवयविन एकत्वात्, तत्रापि भिन्नदेशत्वाऽसिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दाष्टन्तिके च स्याद्वादिनां न दुर्लभः । एवमप्यपरितोषश्चेद आयुष्यातः, तकस्यैव पुंसस्तत्तदुपाधिभेदात् पितृत्व-पुत्रत्व मातुलत्व-भागिनेय Jain Education International For Private & Personal Use Only ।।१७४।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224