SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥ १७० ॥ सत्त्वाभ्याम्, एवं सामान्यविशेषाभ्यामपि सप्तभङ्गयेव स्यात् । तथाहि - स्यात्सामान्यम्, स्याद् विशेषः, स्यादुभयम्, स्यादवक्तव्यम्, स्यात्सामान्याऽवक्तव्यम्, स्याद् विशेषावक्तव्यम्, स्यात्सामान्यविशेषाऽवक्तव्यमिति । न चात्र विधि-निषेधप्रकारौ न स्त इति वाच्यं; सामान्यस्य विधिरूपत्वाद्, विशेषस्य च व्यावृत्तिरूपतया निषेधात्मकत्वात् । अथवा प्रतिपक्षशब्दत्वाद् यदा सामान्यस्य प्राधान्यं तदा तस्य विधिरूपता विशेषस्य च निषेधरूपता । यदा विशेषस्य पुरस्कारस्तदा तस्य विधिरूपता इतरस्य च निषेधरूपता । एवं सर्वत्र योज्यम् । अतः सुष्ठुक्तं अनन्ता अपि सप्तभङ्गय एव भवेयुरिति प्रतिपर्यायं प्रतिपाद्य पर्यनुयोगानां सप्तानामेव संभवात् तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात् तस्या अपि सप्तविधत्वं सप्तधैव तत्संदेह समुत्पादात् ; तस्यापि सप्तविधत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरिति । इयं च सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च; तत्र - सकलादेश: प्रमाणवाक्यम्, तल्लक्षणं चेदम् - प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्याद् अभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः, अस्यार्थः - कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेर्धर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाऽध्यारोपाद् वा समकालमभिधायकं वाक्यं सकलादेशः, तद्विपरीतस्तु विकलादेशो नयवाक्यमित्यर्थः । अयमाशयः- यौगपद्येनाsavaर्मात्मकं वस्तु कालादिभिरभेदप्राधान्यवृत्त्याभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य Jain Education International For Private & Personal Use Only | ।। १७० ।। www.jainelibrary.org.
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy