Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 171
________________ स्याद् ।।१६।। पदार्थेष्वपि नानानयमताऽभिज्ञेन शाब्दानाऽऽश्चि पर्यायान् प्रतीत्य वाच्यम् ।। ___ अत्र चात्मशब्देनाऽनन्तेष्वपि धर्मेष्वनुत्तिरूपमन्वयिद्रव्यं वनितम् , ततश्च "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इति व्यवस्थितम् , एवं तावदर्थेषु । शब्देष्वपि उदात्ता-ऽनुदात्त-स्वरित-विकृत-संवृत-घोषवद-घोषताऽल्पप्राण-महाप्राणतादयः, तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः। अस्य हेतोरसिद्ध विरुद्धानेकान्तिकत्वादिकण्टकोद्धारः स्वयमभ्यूह्यः। इत्येवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि- आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्यपि, कुवादिकुरङ्गसन्त्रासनसिंहनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनित या कुरङ्गा मृगास्तेषां 8 सम्यक्त्रासने सिंहनादा इव सिंहनादाः, यथा सिंहस्य नादमात्रमप्याऽऽकण्य कुरङ्गास्त्रासमामूत्रयन्ति, तथा | भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्त्रस्नुतामश्नुवते-प्रतिवचनप्रदानकातरता विभ्रतीति या- | वत्, एकैकं त्वदुपझं प्रमाणमन्ययोगव्यवच्छेदकांमत्यर्थः । ___अत्र 'प्रमाणानि' इति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम् ; एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽनन्तगुणार्थत्वात् , तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संमृचका भवन्ति' इतिन्यायाद् इतिशब्देन प्रमाणबाहुल्यमूचनात् पूर्वार्दै | ॥१६॥ १ तत्वार्थाधिगमसूत्रे पञ्चमाऽध्यायस्यैकोनत्रिंशं सूत्रम् । Jain Educti emational For Private & Personal Use Only www. brary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224