________________
स्याद्० ॥ १५०॥
नन्वार्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेत् ? । नैवम् स्याद्वादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिरभिमतैव, तथा च क्षणिकत्वम् । अतीताऽनागतवर्तमानपर्यायपरम्परानुसन्धायकं चान्वयिद्रव्यम्, तच्च वासनेति संज्ञान्तरभावेऽप्यऽभिप्रतमेव । न खलु नामभेदाद् वादः कोविदः कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयव्यात कथंचिद् भिन्ना, कथंचिदभिन्ना; तथा तदपि तस्याः स्यादभिन्नं स्याद् भिन्नम् इति पृथक् प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः ।
अपि च, बौद्धमते वासनाऽपि तावन्न घटते, इति निर्विषया तत्र भेदादिविकल्पचिन्ता । तल्लक्षणं हि - पूर्वक्षणेनोत्तरक्षणस्य वास्यता । न चाऽस्थिराणां भिन्नकालतयाऽन्योन्यासंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य संबद्धस्य च वस्त्रादेर्मृगमदादिना वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना, तथाहि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षडिधम्- पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम्, तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति । तदपि नः अस्थिरत्वाद् वास केनाऽसम्बन्धाच्च । यश्चासौ चेतनाविशेषः पूर्व
Jain Education International
For Private & Personal Use Only
OOOOO
||१५०॥
www.jainelibrary.org