________________
स्याद्०
।। १५१॥
चित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति- वर्तमानस्याऽशक्याऽपनेयोपमेयत्वेनाविकार्यत्वात्, तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यऽनागते उपकारं करोतिः तेन सहाऽसंबद्धत्वात्, असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनाऽपि न घटते । अत्र च स्तुतिकारेणाऽभ्युपेत्यावि ताम्, अन्वयिद्रव्यव्यवस्थापनाय भेदाभेदादिचर्चा विरचितेति भावनीयम् ।
अथोत्तरार्धव्याख्या - तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तानि भवद्वचनानि भेदाभेदस्याद्वादसंवादपूतानि परे कुतीर्थ्या:- प्रकरणाद् मायामृनवीयाः, श्रयन्तु आद्रियन्ताम् । अत्रोपमानमाह- तटादशत्यादि - तटं न पश्यतीति तटाऽदर्शी, यः शकुन्तपोतः पक्षिशात्रकः, तस्य न्याय उदाहरणम्, तस्मात् । यथा किल कथमप्यऽपारपारावारान्तः पतितः काकादिशकुनिशावको वहिर्निर्जिगमिषया प्रवहण कूपस्तम्भादेस्तदप्राप्तये मुग्धतयोड्डीनः समन्ताज्जलैकार्णवमेवाऽवलोकयं स्तटमदृष्ट्वैव निर्वेदाद् व्यावृत्य तदेव कूपस्तम्भादिस्थानमा - श्रयते गत्यन्तराभावात् एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ भेदाभेदपक्षमनिच्छयाऽपि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । न हि स्वस्य बलविकलतामाकलय्य बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनाम् | त्वदुक्तानीति बहुवचनं सर्वेषामपि तन्त्रान्तरी याणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथाऽवस्थितपदार्थप्रतिपादनौपयिकं नान्यदिति ज्ञापनार्थम् ; अनन्तधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयात्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात्; इतर
Jain Education International
For Private & Personal Use Only
॥१५१।।
www.jainelibrary.org