________________
स्याद्० ॥१५२॥
थाऽन्धगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित् पठन्ति तत्राप्यदोषः ।
अत्र च समुद्रस्थानीयः संसारः, पोतसमानं त्वच्छासनम्, कूपस्तम्भसन्निभः स्याद्वादः, पक्षिपोतोपमा वादिनः, ते च स्वाभिमतपक्षप्ररूपणोडयनेन मुक्तिलक्षणतटप्राप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धिमपश्यन्तो व्यानृत्य स्याद्वादरूपकूपस्तम्भालङ्कृततावकीनशासनप्रवहणोपर्सपणमेव यदि शरणीकुर्वते, तदा तेषां भवार्णवाद् वहिर्निष्क्रमणमनोरथः सफलतां कलयति, नाऽपरथा इति काव्यार्थः ।
एवं क्रियावादिनां प्रावादुकानां कतिपय कुग्रहनिग्रहं विधाय, साम्प्रतमक्रियावादिनां लौकायतिकानां मतं सर्वाऽधमत्वादन्ते उपन्यस्यन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारेऽकिञ्चित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति
विनाऽनुमानेन पराभिसन्धिमसंविदानस्य तु नास्तिकस्य
न साम्प्रतं वक्तुमपि क्व चेष्टा क दृष्टमात्रं च हहा ! प्रमादः ॥ २० ॥ प्रत्यक्षमेकं प्रमाणमिति मन्यते चार्वाकः । तत्र सनह्यते - अनु पश्चाद् लिङ्गसम्बन्धग्रहणस्मरणानन्तरम्, मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमानं प्रस्तावात् स्वार्थानुमानम्, |॥१५२॥ तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसन्धिं पराभिप्रायम्, असंविदानस्य सम्यग् अजानानस्य;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org