Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेब्रुआरी - २०१५ .
तदर्थमनुष्ठानं वृथा । तत्रोत्तरं - मोक्षो हि बन्धपूर्वकः । स शुद्धनिश्चये नाऽस्त्यतो मोक्षोऽप्यात्मनो नाऽस्ति । यदा शुद्धनिश्चयेन बन्धः, तदा सर्वदैव बन्ध एव ॥" - ६९(६८) गाथा ।
___ "छद्मस्थानां सत्तावलोकनदर्शनपूर्वकं ज्ञानं भवति तत्र दर्शनचतुष्टयमध्ये द्वितीयं यदचक्षुर्दर्शनं मानसरूपं निर्विकल्पं भव्यस्यैव मोहस्य चारित्रस्य क्षये क्षयोपशमोपशमलाभे सति शुद्धात्मानुभूतिरूपं वीतरागसम्यक्त्वं शुद्धात्मानुभूतिध्यानेन सहकारिकारणं भवति भव्यस्यैव, न त्वभव्यस्य, निश्चयसम्यक्त्वचारित्रा भावात् ॥" - ६१(?) गाथा
"चित्ते बद्धे बद्धो, मुक्के मुक्को त्ति नत्थि संदेहो । अप्पा विमलसहावो, मयलिज्जइ मयलए चित्ते ॥" - ६५(?) गाथा
अथ केचन वदन्ति - यदात्माऽशुद्धत्वेन परिणमतीत्युल्लेखेन कथं नाऽऽत्मनोऽशुद्धपरिणामोऽप्यात्मस्वभाव इति । तन्न, स्वभावस्य पर्यायः परिणामो न भवति । यदुक्तं भगवत्यां १२ शते उद्दे० २ - "भवसिद्धियत्तणं भंते! जीवाणं किं सभाओ परिणामओ ? जयंती! सभावओ न परिणामओ ॥" एतद्वृत्तिः - "सभावओ त्ति स्वभावतः पुद्गलानां मूर्तत्ववत् । परिणामओ त्ति परिणामेनाऽभूतस्य भवनेन पुरुषस्य तारुण्यवत् ।" इति । एतेन स्वभावः जीवसहचारि(य)विष्वग्भावसम्बन्धेन सर्वदाऽनुत्थानरूपः, परिणामस्तु परमाणुसंयोग-जन्योत्थानरूपः । - पनवणायां ५ (१३) पदे परिणामो ह्यर्थान्तरगमनम् । तच्च संयोगविशेषः संयोगजन्योपाधिः । यथा नीरोपरि बुबुदः नीरपरिणामः कथं शुद्धपरिणामः(?) .स शुद्धस्वभाव इति स तु कथनमात्रं यथा जीवस्य भव्यत्वं स्वभावतः, न
परिणामत इत्यलं प्रसङ्गेन । [सिद्ध] सिद्धानां स्वतो नोत्पादव्यय [इति]| १ ततो जातं जीवकर्मणोरनादिसंयोगजन्यपरिणामोपाधित्वम् । यदुक्तं ठाणांगवृत्तौ - ‘एगबंधे'त्ति बन्धनं बन्धः सकषायत्वाद्, द्रव्यतो बन्धो निगडादिः, भावतः कर्मणा ।' ... १. प्रापणम् । २. भव्यत्वं सिद्धिगमनकारणं, न त्वन्यत् किञ्चित् । तत्र सत्यपि भव्यत्वे सिद्धिगमनकारणे कियता कालेन निर्लेप ? इति भगवतीवृत्तौ शते १२ उ० २ । अत्र युक्तिभव्याभावोऽभव्यः स्वभावनिषेधः । [स्पष्टत्वार्थं जिज्ञासुभिवृत्तिरेव द्रष्टव्या ।]

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182