Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ फेब्रुआरी - २०१५ प्रियसुहृदामोदरयोर्ललतोरथ रौहिणेयदामोदरयोः । कृतपशुवृन्दावनयोधर्मः क्षयमाप दयितवृन्दावनयोः ॥१५॥ अथ- अनन्तरं धर्मो- ग्रीष्मः क्षयं- विनाशमाप- लेभे । कयोः ? रौहिणेय-दामोदरयोः- बलभद्र-कृष्णयोः । कीदृशयोः ? प्रियसुहृदामोदरयोः। प्रियसुहृदां- वल्लभमित्राणामामोदं- समन्तो (समन्ततो) हर्षं रातौ दत्तस्तौ तथोक्तौ तयोः । किं कुर्वतोः ? ललतो:- क्रीडतोः । तथा कृतपशुवृन्दावनयोः । कृतं पशुवृन्दस्य- गोसङ्घातस्याऽवनं- रक्षणं यकाभ्यां तौ तथोक्तौ तयोः । तथा दयितवृन्दावनयोः । दयितं- प्रियं वृन्दावनं- वनविशेषो ययोस्तौ तथोक्तौ तयोः ॥१५॥ क्षोभमगादभ्राणां स्तनितैविद्युत्वतामगादभ्राणाम् । मुनिरपि नीरागमनाः सरितश्चाऽऽसन् प्रवृत्तनीरागमनाः ॥१६॥ मुनिरपि- यतिरप्यास्तां सरागमनाः । क्षोभं- चलनमगात्- जगाम । "सकामो बभूवेत्यर्थः । कीदृशः ? नीरागमनाः । नीरागं- गतरागं मनः- चित्तं यस्य स तथोक्तः । कैः ? स्तनितैः- गर्जितैः । केषाम् ? अभ्राणां- मेघानाम् । कीदृशानाम् ? विद्युत्वतां- सतडिताम् । तथा अगादभ्राणाम, अगा इवगिरय इवाऽदभ्रा- महान्तोऽगादभ्रास्तेषाम् । न केवलं मुनिः क्षोभमगात्, सरितश्चनद्यश्चाऽऽसन्- बभूवुः । कीदृश्यः ? प्रवृत्तनीरागमनाः- प्रसृतजलप्रवाहाः ॥१६॥ ऐन्द्रं के दर्पस्य प्रथमोहेतुर्बभूव कन्दर्पस्य । स्त्रीहृदयान्यभिनदतः स शरैः प्राप्य सुहृदो घनानभिनदतः ॥१७॥ बभूव- आसीत् । किं तत् ? कं- जलम् । [कीदृशम् ? ऐन्द्रम्इन्द्रसम्बन्धि ।] किम्भूतम् ? हेतुः- कारणम् । कस्य ? दर्पस्य- मदस्य । कस्य? कन्दर्पस्य- कामस्य । कीदृशो हेतुः ? प्रथम- आद्यः । अतोअस्माद्धेतोः । तथाऽभिनदत्- विदारितवान् । कः ? स- कन्दर्पः । कानि? स्त्रीहृदयानि- वनितानां मनांसि । शरैः- बाणैः । किं कृत्वा ? प्राप्यआसाद्य । कान् ? मेघान्- घनान् । कीदृशः ? सुहृदो- मित्राण्युपकारित्वात् । किं कुर्वतः ? अभिनदतो- ध्वनतः ॥१७॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182