Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेबुआरी - २०१५
१४३
४. कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयाभिमतं कारणं युक्तं, नाऽन्यत् । -नयरहस्य. ५. आ ज कारणे व्यवहारनय चरमक्षण पूर्वेनां कारणोने पण कारण तरीके
स्वीकारे छे. ६. यो यो दाह्यस्य पटादेर्देशस्तन्त्वादिः समये समयेऽग्निभावमेति- दह्यते इत्यर्थः,
तत्तद्देशरूपं वस्तु तस्मिन् समये दह्यमानं भण्यते, तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये भण्यते । अतो दह्यमानमेव दग्धम् । यत्तु देशमात्रेऽपि दग्धे "सङ्गाटी मे दग्धा' इति त्वं वदसि, तत् सङ्घाट्येकदेशेऽपि सङ्घाटीशब्दोपचारादिति
मन्तव्यमिति । ७. अत्रोपचारमूलव्यवहारनयोपगृहीतस्य सूत्रनयस्य प्रवृत्तिरित्युक्तं भवति - नयोपदेश
- ३२ टीका ८. तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते । कथं पुनस्तद् वर्तमानं
सदतीतं भवतीति?, अत्रोच्यते, यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेश उत्पद्यमान एवोत्पन्नो भवतीति । उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यत इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव । उत्पन्नत्वं तूपपत्त्या प्रसाध्यते । तथाहि, उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः । यदि पुनर्नोत्पन्नोऽभविष्यत् तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वाद् । उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति । यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवाऽसौ प्राप्नोति । को ह्युत्तरक्षणक्रियाणात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते । अतः सर्वदैवाऽनुत्पत्तिप्रसङ्गः । दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् । अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नाऽन्यथा । तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवाऽसङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात् प्रभृति चलदेव कर्म चलितम् ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182