________________
फेबुआरी - २०१५
१४३
४. कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयाभिमतं कारणं युक्तं, नाऽन्यत् । -नयरहस्य. ५. आ ज कारणे व्यवहारनय चरमक्षण पूर्वेनां कारणोने पण कारण तरीके
स्वीकारे छे. ६. यो यो दाह्यस्य पटादेर्देशस्तन्त्वादिः समये समयेऽग्निभावमेति- दह्यते इत्यर्थः,
तत्तद्देशरूपं वस्तु तस्मिन् समये दह्यमानं भण्यते, तथा दग्धमपि तदेव वस्तु तस्मिन्नेव समये भण्यते । अतो दह्यमानमेव दग्धम् । यत्तु देशमात्रेऽपि दग्धे "सङ्गाटी मे दग्धा' इति त्वं वदसि, तत् सङ्घाट्येकदेशेऽपि सङ्घाटीशब्दोपचारादिति
मन्तव्यमिति । ७. अत्रोपचारमूलव्यवहारनयोपगृहीतस्य सूत्रनयस्य प्रवृत्तिरित्युक्तं भवति - नयोपदेश
- ३२ टीका ८. तत्र योऽसावाद्यश्चलनसमयस्तस्मिंश्चलदेव तच्चलितमुच्यते । कथं पुनस्तद् वर्तमानं
सदतीतं भवतीति?, अत्रोच्यते, यथा पट उत्पद्यमानकाले प्रथमतन्तुप्रवेश उत्पद्यमान एवोत्पन्नो भवतीति । उत्पद्यमानत्वं च तस्य प्रथमतन्तुप्रवेशकालादारभ्य पट उत्पद्यत इत्येवं व्यपदेशदर्शनात् प्रसिद्धमेव । उत्पन्नत्वं तूपपत्त्या प्रसाध्यते । तथाहि, उत्पत्तिक्रियाकाल एव प्रथमतन्तुप्रवेशेऽसावुत्पन्नः । यदि पुनर्नोत्पन्नोऽभविष्यत् तदा तस्याः क्रियाया वैयर्थ्यमभविष्यत्, निष्फलत्वाद् । उत्पाद्योत्पादनार्था हि क्रियाः भवन्ति । यथा च प्रथमे क्रियाक्षणे नासावुत्पन्नस्तथोत्तरेष्वपि क्षणेष्वनुत्पन्न एवाऽसौ प्राप्नोति । को ह्युत्तरक्षणक्रियाणात्मनि रूपविशेषो? येन प्रथमया नोत्पन्नस्तदुत्तराभिस्तूत्पाद्यते । अतः सर्वदैवाऽनुत्पत्तिप्रसङ्गः । दृष्टा चोत्पत्तिः, अन्त्यतन्तुप्रवेशे पटस्य दर्शनाद् । अतः प्रथमतन्तुप्रवेशकाल एव किञ्चिदुत्पन्नं पटस्य, यावच्चोत्पन्नं न तदुत्तरक्रिययोत्पाद्यते, यदि पुनरुत्पाद्येत तदा तदेकदेशोत्पादन एव क्रियाणां कालानां च क्षयः स्यात्, यदि हि तदंशोत्पादननिरपेक्षा अन्याः क्रिया भवन्ति तदोत्तरांशानुक्रमणं युज्यते नाऽन्यथा । तदेवं यथा पट उत्पद्यमान एवोत्पन्नस्तथैवाऽसङ्ख्यातसमयपरिमाणत्वादुदयावलिकाया आदिसमयात् प्रभृति चलदेव कर्म चलितम् ।