________________
फेब्रुआरी - २०१५
प्रियसुहृदामोदरयोर्ललतोरथ रौहिणेयदामोदरयोः ।
कृतपशुवृन्दावनयोधर्मः क्षयमाप दयितवृन्दावनयोः ॥१५॥
अथ- अनन्तरं धर्मो- ग्रीष्मः क्षयं- विनाशमाप- लेभे । कयोः ? रौहिणेय-दामोदरयोः- बलभद्र-कृष्णयोः । कीदृशयोः ? प्रियसुहृदामोदरयोः। प्रियसुहृदां- वल्लभमित्राणामामोदं- समन्तो (समन्ततो) हर्षं रातौ दत्तस्तौ तथोक्तौ तयोः । किं कुर्वतोः ? ललतो:- क्रीडतोः । तथा कृतपशुवृन्दावनयोः । कृतं पशुवृन्दस्य- गोसङ्घातस्याऽवनं- रक्षणं यकाभ्यां तौ तथोक्तौ तयोः । तथा दयितवृन्दावनयोः । दयितं- प्रियं वृन्दावनं- वनविशेषो ययोस्तौ तथोक्तौ तयोः ॥१५॥
क्षोभमगादभ्राणां स्तनितैविद्युत्वतामगादभ्राणाम् । मुनिरपि नीरागमनाः सरितश्चाऽऽसन् प्रवृत्तनीरागमनाः ॥१६॥
मुनिरपि- यतिरप्यास्तां सरागमनाः । क्षोभं- चलनमगात्- जगाम । "सकामो बभूवेत्यर्थः । कीदृशः ? नीरागमनाः । नीरागं- गतरागं मनः- चित्तं यस्य स तथोक्तः । कैः ? स्तनितैः- गर्जितैः । केषाम् ? अभ्राणां- मेघानाम् । कीदृशानाम् ? विद्युत्वतां- सतडिताम् । तथा अगादभ्राणाम, अगा इवगिरय इवाऽदभ्रा- महान्तोऽगादभ्रास्तेषाम् । न केवलं मुनिः क्षोभमगात्, सरितश्चनद्यश्चाऽऽसन्- बभूवुः । कीदृश्यः ? प्रवृत्तनीरागमनाः- प्रसृतजलप्रवाहाः ॥१६॥
ऐन्द्रं के दर्पस्य प्रथमोहेतुर्बभूव कन्दर्पस्य ।
स्त्रीहृदयान्यभिनदतः स शरैः प्राप्य सुहृदो घनानभिनदतः ॥१७॥
बभूव- आसीत् । किं तत् ? कं- जलम् । [कीदृशम् ? ऐन्द्रम्इन्द्रसम्बन्धि ।] किम्भूतम् ? हेतुः- कारणम् । कस्य ? दर्पस्य- मदस्य । कस्य? कन्दर्पस्य- कामस्य । कीदृशो हेतुः ? प्रथम- आद्यः । अतोअस्माद्धेतोः । तथाऽभिनदत्- विदारितवान् । कः ? स- कन्दर्पः । कानि? स्त्रीहृदयानि- वनितानां मनांसि । शरैः- बाणैः । किं कृत्वा ? प्राप्यआसाद्य । कान् ? मेघान्- घनान् । कीदृशः ? सुहृदो- मित्राण्युपकारित्वात् । किं कुर्वतः ? अभिनदतो- ध्वनतः ॥१७॥