________________
..
अनुसन्धान-६६
विद्युद् गौरी हावानकृतेव घनेष्वभूच्च गौरीहावान् ।
सुलभबलाकायेषु ग्लपितचिरप्रोषिताबलाकायेषु ॥१८॥
विद्युत्- तडित् । गौरी- सुवर्णवर्णा । हावान्- मुखविकारान् विलासान् वा । अकृतेव- चकारेव । केषु ? घनेषु- मेघेषु । न केवलं विद्युद् हावान् चकार, गौश्च जातित्वाद् वृषभ इत्यर्थः, ईहावान्- चेष्टावानभूद्बभूव। कीदृशेषु मेघेषु ? सुलभबलाकायेषु । सुलभ:- सुप्रापो बलाकानांपक्षिविशेषाणामाय- आगमो लाभो वा येषु ते तथोक्तास्तेषु । तथा ग्लपितचिरप्रोषितबलाकायेषु । ग्लपिता:- खेदिताश्चिरं प्रोषिताबलानां- गतभर्तृस्त्रीणां काया:- शरीराणि यैस्ते तथोक्तास्तेषु ॥१८॥
जात्या सज्जालकया यूथिकया चाऽऽप्तयुवतिसज्जालकया ।
कमलानि ससर्जाऽऽभ्यां भ्रमरः कृष्टो बलादिति ससर्जाभ्याम् ॥१९॥
भ्रमरः- अलिः ससर्ज- त्यक्तवान् । कानि ? कमलानि- पद्मानिः। किम्भूतः ? कृष्ट- आकृष्टः सन् । कथम् ? बलाद्- वेगात् । काभ्याम् ? आभ्यां- जातियूथिकाभ्याम् । कीदृशीभ्याम् ? ससर्जाभ्यां- सर्जवृक्षसहिताभ्याम् । कस्मादिति हेतोः । यतो जात्या, कीदृश्या ? सज्जालकया । सन्तिशोभनानि जालकानि- गुच्छानि यस्याः सा तथोक्ता [तया] । तथा यथिकया च कीदृश्या ? आप्तयुवतिसज्जालकया । आप्ता:- प्राप्ता युवतीनां- स्त्रीणां सज्जा:- प्रगुणा अलकाः- कुटिलकेशा यया सा तथोक्ता तया ॥१९॥
व्याप्य दिशो दश निभृतः क्षणमपि तस्थौ न शासनादशनिभृतः । संशमितागबलस्य ध्वनन् घनौघः समप्रभो गवलस्य ॥२०॥
क्षणमपि- स्तोककालमपि घनौघो- मेघसङ्घातो न तस्थौ- न स्थितः । किं कुर्वन् ? ध्वनन्- गर्जन् । किम्भूतो न तस्थौ ? निभृतो- निःशब्दः । कस्मात् ? शासनात्- आदेशात् । कस्य ? अशनिभृतः- इन्द्रस्य । किं कृत्वा? ध्वनन् व्याप्य- आच्छाद्य । का? दिशः- ककुभः । कियती: ? दश । यद्वा निभृतो- नितरां जलपूर्णः । कीदृशोऽशनिभृतः ? संशमितागबलस्य। सम्यक् शमितम्- अपनीतमगानां- गिरीणां बलं- सामर्थ्य पक्षच्छेदाद् येन स तथोक्तस्तस्य। कीदृशो घनौघः ? समप्रभः- तुल्यवर्णः । कस्य ? गवलस्यमहिषशृङ्गस्य, कृष्ण इत्यर्थः ॥२०॥