SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ भ्रमर! दश कदम्बरजस्त्वमितीव वदन(न्) स्वनादशकदम्बरजः । हन्तुं विभ्रमरहितां नलिनी पथिकाङ्गनां च विभ्रमरहिताम् ॥२१॥ अम्बरजो- मेघोऽशकत्- समर्थोऽभूत् । किं कर्तुम् ? हन्तुं विनाशयितुम् । काम् ? नलिनी- पद्मिनीम् । कीदृशीम् ? विभ्रमरहिताम् । वयश्च पक्षिणो हंसादयो भ्रमराश्च भृङ्गास्तेभ्यो हितामनुकूलां, छायामधुदानादिना । तथा पथिकाङ्गनां च- गतभर्तृकां च, हन्तुमशक्यत्वात् । कीदृशीम् ? विभ्रमरहितां- विलासहीनाम् । किं कुर्वन्निव ? धुव(वद)न्निव । कस्माद् ? स्वनात्- शब्दात् । किं वदन् ? इति- एतत् - हे भ्रमर!- भृङ्गः, त्वं दशभक्षस्व । किं तत् ? कदम्बरजः- कदम्बपुष्परागम् ॥२१॥ ज्योत्स्नाऽलं घनमलिना न बभौ क्रियते स्म कुटजलङ्घनमलिना । बलवानवपू रोहन् हृद्यास नदीतटांश्च नवपूरोऽहन् ॥२२॥ ज्योत्स्ना- चन्द्रकान्तिर्घनमलिना- मेघकृष्णा सती अलमत्यर्थं न बभौ- न शुशुभे । तथा क्रियते स्म- कृतम् । किं तत् ? कुटजलङ्घनम् । कुटजपुष्पाणां लङ्घनमतिक्रमणं गमनं वा । केन ? अलिना- भ्रमरेण । तथा अवपुः- अनङ्ग आस- बभूव । क्व ? हृदि- मनसि । किं कुर्वन् ? रोहन्- प्रादुर्भवन् च तन्वा । कीदृशः ? बलवान्- शक्तिमान् । . तथा नवपूरो- नवजलप्रवाहोऽहन्- हतवान्- पातितवान् । कान् ? नदीतटान्- सरिद्रोधांसि । चः समुच्चये ॥२२॥ शिखिषु समुत्सु कमनसो गतिहरमुज्झति च खे समुत्सुकमनसः । व्यमुचन्नपवनजवना वापीहंसाः स्थिताश्च न पवनजवनाः ॥२३॥ ... व्यमुचन्- त्यक्तवन्तः । के ? हंसा:- चक्राङ्गाः । का ? वापी:सरसीः । कीदृशीः ? अपवनजवनाः । वने- जले जातानि वनजानि- पद्मानि, तेषां वनं- खण्डो वनजवनम् । अपगतं- भ्रष्टं वनजवनं- पद्मखण्डो यासु तास्तथोक्तास्ताः । न केवलं व्यमुचन्, [न] स्थिताश्च- न स्थिति कृतवन्तः । कीदृशाः ? पवनजवना- वायुसमवेगाः । केषु सत्सु ? शिखिषु- मयूरेषु । कीदृशेषु ? समुत्सु- सहर्षेषु । तथा खे- आकाशे सति । किं कुर्वति ? . उज्झति- मुञ्चति । किं तत् ? कं- जलम् । कीदृशम् ? गतिहरं- गमनविनाशि ।
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy