________________
५४.
अनुसन्धान-६६
कस्य ? अनसः- शकटस्य । हंसाः कथम्भूताः ? समुत्सुकमनसःउत्कण्ठितचित्ताः ॥२३॥ . शब्दोऽनादेयानां कलुषतया नो शशाम नादेयानाम् ।
फेनो वा नीराणामाकृष्टोभयतटान्तवानीराणाम् ॥२४॥ - नो शशाम- नोपशमं जगाम । कोऽसौ ? शब्दो- नादः । तथा फेनो वा- डिण्डीरश्च । केषाम् ? नीराणां- जलानाम् । कीदृशानाम्.? नादेयानाम्। नद्यां भवानि नादेयानि तेषां सरितः सत्कानाम् । तथा अनादेयानाम्- अग्राह्याणाम्। कया ? क्लुषतया- मलिनतया । तथाऽऽकृष्टोभयतटान्तवानीराणाम् । आकृष्टाः- पातिता उभयतटान्तेभ्यो- रोधद्वयान्तेभ्यो वानीरा- वेतसा यैस्तानि तथोक्तानि तेषाम् ॥२४॥
प्राप्य सखद्योतायां निशि विद्युज्जितमरुत्सखद्योतायाम् । प्रियतमसदनं गेहादबला भयमुत्ससर्ज सदनङ्गेहा ॥२५॥
अबला- वनिता भयं- त्रासमुत्ससर्ज- तत्याज । किं कृत्वा ? प्राप्य- आसाद्य । किं तत् ? प्रियतमसदनम्- अभीष्टगृहम् । कस्माद् ? गेहात्- स्वगृहात् । किम्भूता सती ? सदनङ्गेहा सती । विद्यमानाऽनङ्गेहाकामचेष्टा यस्याः सा तथोक्ता । कस्याम् ? निशि- रात्रौ । कीदृश्याम् ? सखद्योतायाम् । सह खद्योतैः- ज्योतिरिङ्गणैर्वर्तते या सा तथोक्ता तस्याम् । तथा विद्युज्जितमरुत्सखद्योतायाम् । विद्युता- तडिता जितो- अभिभूतो मरुत्सखस्य- अग्ने?तो- दीप्तिर्यस्यां सा तथोक्ता तस्याम् ॥२५॥
पर्वतकटकेशानां नीपरजःकपिलकुम्भकंटकेशानाम् ।
कुञ्जनदीनगजानां हर्षो जज्ञे महानदीनगजानाम् ॥२६॥ हर्षों जज्ञे- प्रमोदो जातः । कीदृशः ? महान्- गुरुः । केषाम् ? अदीनगजानां- सतेजःकरिणाम् । कीदृशाम् ? पर्वतकटककेशानांगिरिप्रस्थस्वामिनाम् । तथा नीपरजःकपिलकुम्भकटकेशानाम् । नीपरजसाकदम्बरेणुना कपिला:- पिङ्गलाः कुम्भकटकेशा:- शिरःपिण्डकपोलवाला येषां ते तथोक्तास्तेषाम् । तथा कुञ्जनदीनगजानाम् । कुञ्जानि च गह्वराणि, नद्यश्च सरितो, नगाश्च पर्वतास्ते तथोक्तास्तेषु जाताः कुञ्जनदीनगजास्तेषाम् ॥२६॥