SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ विविधोपलराशिखरं पिदधे गोवर्धनं तृणैराशिखरम् । कालोऽगं धारावानकरोत् कुटजशिखिनां च गन्धारावान् ॥२७॥ अगं- गिरिम् । किमभिधानम् ? गोवर्धनं- गोवर्धननामानम् । कालः कर्ता पिदधे- आच्छादितवान् । कीदृशः कालः ? धारावान् । धारा विद्यन्तेऽस्य धारावान् । जलवृष्टिप्रपातयुक्तो वर्षाकाल इत्यर्थः । कैः ? तृणैः । कथं पिदधे ?. आशिखरं- शिरःपर्यन्तम् । कथम्भूतमगम् ? विविधोपलराशिखरम्। नानाविधप्रस्तरकूटकठोरम् । न केवलं पिदधे, अकरोच्च । कान् ? गन्धारावान् । गन्धाश्चाऽऽरावाश्च तानामोदशब्दान् । केषाम् ? कुटजशिखिनाम् । कुटजानां गन्धान् मयूराणां च शब्दानित्यर्थः ॥२७॥ कणिकाभिरपां सुखरा वृन्दावनमारुता ववुरपांशुखराः । यमुना नवमुदकपटं भेजे व्रजलोकमाश्रिता मुदकपटम् ॥२८॥ वृन्दावनमारुता- वृन्दावनस्य वाता ववुः- वान्ति स्म । कीदृशाः? सुखराः । सुखं रान्ति- ददतीति सुखरा:- शर्मदाः । काभिः ? कणिकाभि:लेशैः । कासाम्.? अपां- जलानां, शीतलत्वात् । तथा अपांशुखराः । न पांशुभिः खरा:- कठोराः । यमुना- कालिन्दी नवं- नूतनमुदकपटं- जलमेव वस्त्रं भेजेसिषेवे । तथा मुद्- हर्ष आश्रिता- आश्लिष्टा । कम् ? व्रजलोकंगोकुलजनम् । कीदृशम् ? अकपटम् । न विद्यते कपट- माया यस्य स . तथोक्तस्तमृजुमित्यर्थः । व्रजलोको हृष्टो बभूवेत्यर्थः ॥२८॥ अतपनवसुदे वसु तौ वज्रस्य साभ्रे ततोऽह्नि वसुदेवसुतौ । अमृतसमधुनीपवनं वृन्दावनमविशतां समधुनीपवनम् ॥२९॥ . ततोऽनन्तरं तौ वसुदेवसुतौ- विष्णुबलौ वृन्दावनमविशतां- प्रविष्टौ । कीदृशम् ? समधुनीपवनम् । समधूनि- पुष्परससहितानि नीपानां- कदम्बानां वनानि यत्र तत् तथोक्तम् । तथाऽमृतसमधुनीपवनम् । अमृतेन- पीयूषेण समः- समानः शीतत्वात् सुरभित्वाच्च धुनीपवनो- नदीवातो यत्र तत् तथोक्तम् । कस्मिन् ? अह्नि- दिवसे । कीदृशे ? साभ्रे- समेघे । तथाऽतपनवसुदे । न तपनस्य- आदित्यस्य वसून्- रश्मीन् ददाति मेघावृतत्वादिति तत् तथोक्तं
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy