SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६ अनुसन्धान-६६ तस्मिन् । रविकिरणरहिते इत्यर्थः । तौ कीदृशौ ? वसु । द्रव्यमुपभोग्यत्वात् प्रसिद्धत्वाद् वा । यद्वा रत्नं प्रधानत्वात् । कस्य ? व्रजस्य गोकुललोकस्य ॥२९॥ - शिखिसर्वस्वधरस्य द्वे प्रियतां जग्मतुर्हरेः स्वधरस्य । भ्रमरकदम्बकरवहा वेणुः प्रावृट् तथा कदम्बकरवहा ||३०|| द्वे- वेणु - प्रावृषौ प्रियतां जग्मतुः - उभे प्रिये बभूवतुः । कस्य ? हरे:- विष्णोः । कीदृशस्य ? स्वधरस्य - शोभनौष्ठस्य । तथा शिखिसर्वस्वधरस्य । शिखिनां सर्वस्वं पिच्छानि धरति - बिभर्तीति स तथोक्तस्तस्य मयूरपिच्छधारिण इत्यर्थः । एकस्तावद् वेणुः- वंशः । कीदृश: ? भ्रमरकदम्बकरवहा । भ्रमराणां - भृङ्गाणां कदम्बकं- वृन्दं, तस्य रवः- शब्दः, तं हन्ति - जयतीति स तथोक्तः । अतिमधुरत्वाद् भ्रमररुतजेतेत्यर्थः । तथा प्रावृट् कीदृशी ? कदम्बकरवहा । कदम्बपुष्पाण्येव करौ - हस्तौ, करं- दण्डं वा वहतिबिभर्तीति सा तथोक्ता । कदम्बपुष्पयुक्तेत्यर्थः ॥३०॥ अंसादामोदस्य स्थानमवस्त्रंसि नीपदामोदस्य । श्रीर्ललितमथो व्रजतः काऽपि बभूवाऽस्य मुष्टिकमथो व्रजतः ॥३१॥ 1 काऽपि श्रीरपूर्वा शोभा बभूव - आसीत् । कस्य ? अस्य- हरे: कीदृशस्य ? मुष्टिकमथः । मुष्टिकं दानवं मथितवान्- हतवान् मुष्टिकमत् तस्य । किं कुर्वतः ? व्रजतः - गच्छतः । कथम् ? ललितं- सविलासम् । कस्माद् व्रजतः ? गोकुलात् । अथोऽनन्तरं किं कृत्वा व्रजतः ? उदस्यउत्क्षिप्योर्ध्वकृत्य । किं तत् ? नीपदाम - कदम्बपुष्पमालाम् । कीदृशम् ? स्थानम्- आश्रयः कस्य ? आमोदस्य- गन्धस्य । तथा अवस्त्रंसि - अधःपाति । कस्माद् ? अंसात्- स्कन्धात् ॥३१॥ घृतकमधुरैर्मधुरैर्भ्रमरेभ्यो मुदितबल्लवकुलैर्बकुलैः । क्षतकेशिशिराः शिशिराः स्थलीर्युताः प्रायशो ( प्राप सो ) - ऽस्तसुरभीः सुरभीः ॥३२॥ स- विष्णुः प्राप प्राप्तवान् । काः ? स्थली :- स्थलानि । कीदृश: ? अस्तसुरभीः। अस्ता क्षिप्ता अपनीता सुराणां देवानामसुरेभ्यो
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy