SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ भी:- भयं येन स तथोक्तः । तथा क्षतकेशिशिराः । क्षतं- विनाशितं केशिशिरो- दानवकेशिमस्तकं येन स तथोक्तः । कीदृशीः स्थली: ? शिशिराःशीतलाः । तथा सुरभी:- शोभनगन्धाः । तथा युता- युक्ताः । कैः ? बकुलैः- बकुलपुष्पैः । कीदृशैः ? धृतकामधुरैः । धृता कामस्य धुराधूर्भारो यैस्तानि तैः । अनङ्गवर्धकैरित्यर्थः । तथा मधुरैः । मधु- पुष्परसं रान्ति- ददतीति मधुराणि तैः । केभ्यः ? भ्रमरेभ्यः- भृङ्गेभ्यः । तथा मुदितबल्लवकुलैः। मुदितानि- हृष्टानि बल्लवानां- गोपानां कुलानि- वृन्दानि येषु तानि तथोक्तानि तैः । विकसितबकुलदर्शनाद् बल्लवसङ्घातो हृष्ट इत्यर्थः ॥३२॥ ता वृषभरणाभरणा तेन युताः स्वयमिवाऽञ्जनभसा नभसा । रेजुः सुतरां सुतरां यमुनामभितः सवझुललता ललता ॥३३॥ ___ ता:- स्थल्यो रेजुः- शुशुभिरे । कथम् ? सुतरामतिशयेन । कीदृश्यः ? तेन- हरिणा युताः- सहिताः । तथा वृषभरणाभरणाः । वृषभानां रण:सङ्ग्राम आभरणं यासु तास्तथोक्ताः । क इव ? स्वयमिव- आत्मेव । हरेर्यथाऽऽत्मा राजते । कथम्भूतः ? युतः । केन ? नभसा- आकाशेन । कीदृशेन ? अञ्जनभसा । अञ्जनं भस्ति- निर्भर्त्सयति कृष्णत्वेनेत्यञ्जनभस्तेन । कृष्णवर्णेनेत्यर्थः । हरिणाऽप्यञ्जनभसा । कीदृशेन तेन ? ललता- क्रीडता। कथम् ? अभितः- लक्षीकृत्य । काम् ? यमुनां- कालिन्दीम् । कीदृशीम् ? सुतराम् । सुखेन तीर्यते इति सुतरा तां सुखोत्तराम् । स्थलीः कीदृश्यः ? सवाललताः । वञ्जलाश्च वेतसा लताश्चाऽशोकलतादयो वञ्जललताः । सह ताभिर्वर्तन्ते यास्ताः सवञ्जुललताः । कृष्णत्वं स्थलीनां दर्शितम् ॥३३॥ श्रेष्ठपदारोहिण्याः सुतोऽप्यलयमहिमाऽऽपदा रोहिण्याः । प्राप्य शरीरं तुङ्गां द्युतिं च स इवाऽऽगतः शरी रन्तुं गाम् ॥३४॥ .....सुतोऽपि- पुत्रोऽपि रन्तुं- क्रीडितुमागत- इयाय स- बलभद्रः । कस्याः सुतः ? रोहिण्याः । कीदृश्याः ? श्रेष्ठपदारोहिण्याः- महापदस्थायाः पट्टमहादेव्या इत्यर्थः । सुतः कीदृशः ? अलयमहिमा- अनतिक्रमणीयमाहात्म्यः। कया ? आपदा- विपदा दानवादिकृतया । क इवाऽऽगतः ? शरीव- काम इवाऽऽगतवान् । काम् ? गां- पृथिवीम् । किं कर्तुम् ? रन्तुम् ।
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy