________________
-
अनुसन्धान-६६
कामस्याऽमूर्तत्वात् कथमागत इति चेदाह - किं कृत्वा ? प्राप्यआसाद्य । किं तत् ? शरीरं- देहम् । न केवलं शरीरं, धुर्ति च- दीप्तिं च । कीदृशीम् ? तुङ्गा- महतीम् । मूर्त इति ॥३४॥ निवुलवतीं ककुभानां समो मतिक्षान्तिदीप्तिभिः ककुभानाम् । अंसेन स्वनवद्यां स्रजं वहन्नपिपदलिकुलं स्वनवद् याम् ॥३५।। युग्मम् ॥
किं कुर्वन्नागतः ? वहन्- धारयन् । कां ताम् ? स्रजं- मालाम् । केन ? अंसेन- स्कन्धेन । केषां स्रजम् ? ककुभानां- ककुभसुमानाम् । कीदृशीम् ? निवुलवतीं- निवुलपुष्पवतीम् । तथा स्वनवद्याम् । सुष्ठशोभनाम्, अनवद्यां- निर्दोषाम् । यां- स्रजमपिपत्- पपौ । किं तत् ? अलिकुलं- 'भ्रमरवृन्दम् । कीदृशम् ? स्वनवत्- शब्दायमानम् । कीदृशो बलः? समः- तुल्यः । केषाम् ? ककुभानां- ब्रह्मपृथिवीनक्षत्राणाम् । काभिः? मति-क्षान्ति-दीप्तिभिः । यथासङ्ख्यं बुद्ध्या ब्रह्मतुल्यः, क्षमया पृथ्वीसमानः, कान्त्या चन्द्रादिसमः ॥३५॥
दृष्ट्योद्धवलासितया लिम्पन्निव दिङ्मुखानि धवलासितया । बहुधाऽऽप वने च्छायां प्रावृषि मेघानुयातपवनेच्छायाम् ॥३६॥
बल आप- प्राप । किं कुर्वन्निव ? लिम्पन्निव- उपचिन्वन्निव । कानि ? दिङ्मुखानि- आशाविवराणि । कया ? दृष्ट्या- दृशा । कीदृश्या? उद्धवलासितया । उद्धवे मन्त्रिणि लासिता- स्निग्धा प्रेरिता वा तया । यद्वा कया कृत्वा लिम्पन्निव ? उद्धवलासितया । उद्धवैः- अक्षिविलासैर्लसतिक्रीडतीति उद्धवलासी, तस्य भाव उद्धवलासिता तया । विलासक्रीडयेत्यर्थः । कामाप ? छायाम्- आतपाभावं शोभा वा । क्व ? वने- कानने । तथा दृष्ट्या किम्भूतया ? धवलासितया- शुभ्रकृष्णया । कथं छायामाप ? बहुधाअनेकप्रकारां, घनादिभेदेन । कस्याम् ? प्रावृषि- वर्षासु । कीदृश्याम् ? मेघानुयातपवनेच्छायाम्। मेघानुयातस्य घनानुसृतस्य पवनस्येच्छा- विहरणवाञ्छा, मेघानुश्रितपवनेच्छा- वाञ्छा लोकानां यत्र सा तथोक्ता तस्याम् ॥३६॥
अथ स वलक्षो भानां पतिरिव कर्तारमरिबलक्षोभानाम् । मुस(श)लीदं तुरगहनं वीक्ष्य गिरिं प्राह कुटजदन्तुरगहनम् ॥३७॥