SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ फेबुआरी - २०१५ अथाऽनन्तरं स मुशली-बलः प्राह- उक्तवान् । कीदृशः ? वलक्षोधवलः । क इव ? भानां- नक्षत्राणां पतिरिव- चन्द्र इव । किं कमाह ? इदं- वक्ष्यमाणं तुरगहनं- अश्वदानवघ्नं, हरिमित्यर्थः । कीदृशम् ? कर्तारंविधातारम् । केषाम् ? अरिबलक्षोभानां- शत्रुसैन्यत्रासानाम् । किं कृत्वा ? वीक्ष्य- दृष्ट्वा । कम् ? गिरिं- गोवर्धनम् । कीदृशम् ? कुटजदन्तुरगहनम् । कुटजपुष्पैर्दन्तुराण्युद्गतदन्तानीव विषमोन्नतानि वा गहनानि- गह्वराणि यस्य स तथोक्तस्तम् ॥३७॥ विदधच्छं नश्छन्नः कुटजैः क्षरति प्रगीतगोपोऽगोऽपः । प्रस्वनदभ्रोऽदभ्रः सृष्टिविशेषोऽयमतुलधातुर्धातुः ॥३८॥ अयमगो- गिरिः क्षरति- स्रवति । का ? अपो- जलानि । किं कुर्वन् ? विदधत्- कुर्वन् । किं तत् ? शं- सुखम् । केषाम् ? नःअस्माकम् । कीदृशः ? छन्न:- आवृतः । कैः ? कुटजैः- कुटजवृक्षैः । तथा प्रगीतगोपः । प्रकर्षेण गीता- गायन्तो गोपा- गोपाला यत्र स तथोक्तः । तथा प्रस्वनदभ्रः । प्रकर्षेण स्वनन्तः- शब्दायमाना अभ्रा- मेघा यत्र स तथोक्तः । तथाऽदभ्रः- महान् । तथा सृष्टिविशेषो- विशिष्टसर्गः । कस्य ? धातुः* ब्रह्मणः । तथाऽतुलधातुः । अतुला अनन्यसमा धातवो यत्र स तथोक्तः ॥३८॥ - पश्य श्यामाश्यामा वनस्थली भाति बलवदृश्या दृश्या । प्रदरा धाराधारा ध्वनन्ति मेघाश्च शिरसि हन्तेहन्ते ॥३९॥ हे हरे! पश्य- अवलोकय । किम् ? भाति- शोभते । का? वनस्थली- वृक्षादिस्थलम् । कीदृशी ? श्यामाश्यामा । श्यामाभिः- प्रियङ्गलताभिः श्यामा- कृष्णा श्यामाश्यामा । तथा बलवदृश्या । बलवन्तो- बलयुक्ता ऋश्या- मृगविशेषा यस्यां सा तथोक्ता । तथा दृश्या- रमणीया । न केवलं स्थली भाति, इह गिरौ शिरसि- शिखरे हन्त- अहो! ध्वनन्ति इहन्ते च- चेष्टन्ते च । गर्जनादिव्यापारं कुर्वन्तीत्यर्थः । के ? मेघाघनाः । कीदृशाः ? प्रदराः । प्रकर्षेण दरन्ति- दारयन्ति प्रदरा- दुःखोत्पादकाः । • तथा धाराधाराः । तथा धाराणां- जलदण्डानामाधारा- आश्रया धाराधाराः । - यद्वा पाठान्तरं यस्य श्यामाश्यामेति । यस्याऽगस्य वनस्थली भाति,
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy