SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६० सोऽयं गिरिरपः क्षरतीति प्रोक्तन श्लोकेन सम्बन्धः ॥३९॥ अनुसन्धान-६६ अश्मसु कं दलदशनैरुद्वमति दरीमुखैश्च कन्दलदशनैः । दयितो ऽच्युत! हे मम यः तव च रवीन्द्वोर्यथाऽचलो हेममयः ||४०|| 1 यश्च गिरिरुद्वमति- उद्गिरति । किं तत् ? कं- जलम् । किं कुर्वत् ? दलत्- स्फुटत् । केषु ? अश्मसु - दृषत्सु । कथमुद्वमति ? अशनै:- शीघ्रम् । कैः ? दरीमुखैः कन्दरचनैः । कीदृशैः ? कन्दलदशनैः । कन्दलान्येवं दशना- दन्ता येषां तानि तथोक्तानि तैः । कीदृशोऽगः ? दयितो- वल्लभः । कस्य ? तव - तुभ्यं मम च मह्यं च हेऽच्युत! - हरे! । कयोरिव कः ? यथा रवीन्द्वोः - सूर्यचन्द्रयोर्दयितो भवति । कः ? अचलो - गिरिः । किम्भूतः ? हेममय:- सुवर्णसत्कः । मेरुरित्यर्थः ॥४०॥ शकुनिपताकाशबलं घनवृन्दं चक्षुषा पताऽऽकाशबलम् । रूपं हारीतानां श्रियं वनानां च मत्तहारीतानाम् ॥४१॥ 1 हे हरे ! चक्षुषा पताका (पत ? - ) अवलोकय । किं तत् ? घनवृन्दं - मेघसङ्घातम् । कीदृशम् ? शकुनिपताकाशबलम् । शकुन्तय एव बलाकापक्षिण एव पताका- वैजयन्ती, शुभ्रत्वात्, तया शबलं- कर्बुरम् । तथाऽऽकाशबलम् । आकाशे- गगने बलं- सामर्थ्यं यस्य तत् तथोक्तम् । न केवलं घनवृन्दं, पत रूपं - स्वभावं च । कीदृशम् ? हारि- मनोहरम् । केषाम् ? वनानां - काननानाम् । कीदृशानाम् ? इतानां प्राप्तानाम् । काम् ? श्रियं - पुष्पादिसमृद्धि शोभां वा । तथा मत्तहारीतानाम् । मत्ता:- क्षीबा हृष्टा वा हारीताः पक्षिविशेषा येषु तानि तथोक्तानि तेषाम् ॥४१॥ पूर्वं स्म हरे ! शेषे यान् मेघान् वीक्ष्य भूश्रमहरे शेषे । जनितरतिरसावसि तैरादाय तडिद्गुणार्णवरसावसितैः ॥४२॥ असौ - त्वं जनितरतिः- उत्पादितप्रीतिरसि- भवसि । हे हरे ! - अच्युत ! | कैः ? तै:- मेघैः । कीदृशैः ? असितैः- कृष्णैः । किं कृत्वा ? आदाय - गृहीत्वा । कौ ? तडिद्गुणार्णवरसौ- विद्युद्दोरकसमुद्रजले । समुद्रजलस्य कृष्ट(ष्ण)त्वात् तद्वर्णैरित्यर्थः । यान् मेघान्- घनान् वीक्ष्य- दृष्ट्वा पूर्वं - पुरा शेषे स्म - त्वं शयितवान् । कस्मिन् ? शेषे - नागराजे आधारे । शेषस्योपरीत्यर्थः । I 1
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy