________________
फेबुआरी - २०१५
भूश्रमहरे- -पृथ्वीखेदनाशके । तस्यास्तत्र स्थितत्वात् ॥४२॥
दिगसावर्यमदयिता याम्या ध्रुवमयमृतुश्च वय! मदयिता ।
यदियमुदग्रतमेषु प्राप्ता जलदेषु रविमुदग्रतमेषु ॥४३॥
हे वर्य! - प्रधान! हरे!, दिगसौ- आशेषा । कथम्भूता ? याम्यादक्षिणा ध्रुवं- निश्चितमर्यमदयिता- सूर्यप्रिया । तथा ऋतुश्चाऽयं प्रावृट् मदयिता- मदकारी । यद्- यस्मादियं- याम्या दिक् प्राप्ता । कम् ? रविम्आदित्यम् । कीदृशम् ? उदग्रतम्- उदीच्यां रक्तमासक्तम् । केषु सत्सु ? एषु जलदेषु मेघेषु । कीदृशेषु ? उदग्रतमेषु- उद्भटेषु- गर्जादियुक्तेषु ॥४३॥
कार्मुकवलयमनूनं दिशसि यतस्तोषितोऽसि बलयम! नूनम् । इत्याशामुखरतया घनराज्या हरिरिवोच्यते मुखरतया ॥४४॥
उच्यते इव- भण्यते इव । कोऽसौ ? हरिः- इन्द्रः । कया ? घनराज्या- मेघपङ्क्त्या । कीदृश्या ? आशामुखरतया । आशानां- दिशां मुखानि- वक्त्राणि, तेषु रता- आसक्ता स्थिता [वा] तया । कया कृत्वोच्यते? मुखरतया- वाचाटतया । किमुच्यते ? इति- एतत् । हे बलयम!- इन्द्र!, यतस्त्वं दिशसि- ददासि । किं तत् ? कार्मुकवलयं- चापवलयम् । कीदृशम् ? अनूनं- परिपूर्णम् । कथम् ? नूनं- निश्चितम् । अतस्तोषितोऽसिहर्षमुत्पादितोऽसि ॥४४॥
न तवोपरि बहेण ग्रथिताभरणस्य गोपपरिबर्हेण । छायामसिताऽऽप घनः सुरचापाङ्कः परैरकसितापघनः(न! ?) ॥४५॥
हे असित !- कृष्ण!, न छायां - न शोभामाप- लेभे । कोऽसौ ? घनो- मेघः । कीदृशः ? सुरचापाङ्क- इन्द्रधनुश्चिह्नः । कथम्भूतः ? परैःशत्रुभिरकसितापघनः(न!) । अकसितानि- असारितानि अकर्षितानि वा [अपघनानि?-] अङ्गानि- हस्तपादादीनि यस्य स तथोक्तः । तस्याऽऽमन्त्रणम् । कस्य छायाम् ? तव- भवतः । कीदृशस्य ? ग्रथिताभरणस्य- कृतभूषणस्य । .क्व ? उपरि । केन कत्रो (कर्ना?) गोपपरिबहेण- गोपालपरिसरेण । केन कृत्वा ? बहेण- मयूरपिच्छेन ॥४५॥