________________
अनुसन्धान-६६
हृतगिरिधातुरसं गा रुद्ध्वा तव भुजसमोर्मि धातुरसङ्गा । . . .
कूलानि खनद् यमुना वहति जलं सर्पति च खनद्यमुना ॥४६॥
यमुना- कालिन्दी जलम्- उदकं वहति । किं कुर्वत् ? खनद्विदारयत् । कानि ? कूलानि- रोधांसि । कीदृशं जलम् ? हृतगिरिधातुरसम् । हृत- आकृष्टो गिरिधातूनाम्- अद्रिगैरिकादीनां रसो- जलं रसा वा भूमिर्येन तत् तथोक्तम् । किं कृत्वा वहति ? रुद्ध्वा- आवृत्य । काः ? गाः- पशून् दिशो वा । भग्नगोप्रचारं व्याप्तदिक्कं वा । तथा भुजसमोर्मि- बाहुतुल्यकल्लोलं, कृष्णत्वाद् दीर्घत्वाच्च । कस्य ? तव- भवतः । कथम्भूतस्य ? धातुःस्रष्टुः । यमुना कीदृशी ? असङ्गा- अस्खलना । न केवलं यमुना जलं वहति, खनदी च- गङ्गा अमुना- यमुनाजलेन सर्पति च- प्रसरति च । महती भवतीत्यर्थः ॥४६॥
पवनैरज! साध्वस्तं बिभ्राणां नीपमात्मरजसा ध्वस्तम् ।
पश्यैकान्ततरलतां स्थलीं गतां बर्हियोगकान्ततरलताम् ॥४७॥
हेऽज!- हरे! पश्य- अवलोकय । काम् ? स्थलीम् । कीदृशीम् ? गतां- प्राप्ताम् । काम् ? एकान्ततरलताम् । एकान्तेन- निश्चयेनैकान्ते- विजने वा तरलता- चञ्चलता, रम्यतेत्यर्थस्तम् । तथा बहियोगकान्ततरलताम् । बहियोगेन- मयूरसम्बन्धेन कान्ततरा- अतिचारवो लता:- चम्पकलताद्या यस्यां सा तथोक्ता ताम् । तथा बिभ्राणां- धारयमाणाम् । किं तत् ? नीपंकदम्बपुष्पाणि, जातित्वात् । कीदृशम् ? अस्तं- क्षिप्तम् । कैः ? पवनैःवातैः । तथा साधु- शोभनम् । तथा आत्मरजसा- आत्मीयपरागेन ध्वस्तंव्याप्तम् ॥४७॥
वसने संस्तव न नवा जेतुमलं तडिदमोघसंस्तवन! नवा । मधुकरविश्वसितानि स्मितमिह कुटजानि जनितविश्व! सितानि ॥४८॥
तव वसने- भवतो वस्त्रे, हेऽमोघसंस्तवन!- सफलस्तुते!, न नवा जेतुमलम्- अपि तु जेतुमनुकर्तुमलं- समर्था । काऽसौ ? तडिद्- विद्युत् । कीदृशी ? नवा - नूतना । कथम्भूतः ? सन्- शोभनं(न!?) ।
तथा जनितविश्व!- उत्पादितभुवन! । इह- गिरौ कुटजानि