SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६३ फेब्रुआरी - २०१५ कुटजपुष्पाणि स्मितं- हास इव, शुभ्रत्वात् । कीदृशानि ? मधुकरविश्वसितानि । मधुकराणां भ्रमराणां विविधं नानाप्रकारं श्वसितं - प्राणनं जीवनं मधु वा येषु तानि तथोक्तानि । तथा सितानि - शुभ्राणि ॥४८॥ मारुतवेगाद् गुणवन्नवशशिखण्डानां शुक्लापाङ्गविडम्बितनवशशिखण्डानाम् । [सङ्घाः] शिखिनां प्राप्ताः शं केकायन्ते स्थलघनमिति मन्वानाः शङ्के कायं ते ॥४९॥ शिखिनां - मयूराणां सङ्घाः- सङ्घाताः केकायन्ते - शब्दायन्ते । कि कुर्वाणाः ? मन्वानाः- मन्यमानाः । हे गुणवन्! - शौर्यादिगुणयुक्त! हरे ! । कम् ? कायं - शरीरम् । कस्य ? ते तव । कथं मन्वानाः ? स्थलघनमितिस्थलीमघ(स्थलमेघ?)मिति - एवंप्रकारमहमेवं शङ्के - मन्ये । कीदृशाः सङ्घाः ? प्राप्ताः । किं तत् ? . शं- सुखम् । कीदृशानां शिखिनाम् ? अवशशिखण्डानाम् । अवशःअस्वाधीन उच्छृङ्खलः शिखण्डः- पिच्छकलापो येषां ते तथोक्ताः तेषाम् । कस्मात् ? मारुतवेगाद्- वायुरयेण । तथा शुक्लापाङ्गविडम्बितनवशशिखण्डानाम्। शुक्लापाङ्गैः- धवलनयनपर्यन्तैर्विडम्बितानि - अनुकृतानि नवानिनूतनानि शशिखण्डानि - चन्द्रकला यैस्ते तथोक्तास्तेषाम् ॥४९॥ पश्य शिलाः शैलेऽस्मिन्नुच्चावचसानौ यान्त्युन्मुखबर्हिणतामुच्चा वचसा नौ | अमुना शसितरिपुस्त्रीशृङ्गारो हि त्वं याचित इवाऽम्बुनादैः शृङ्गारोहित्वम् ॥५०॥ हे हरे ! पश्य - अवलोकय । अस्मिन् - शैले- गोवर्धने शिलादृषदो यान्ति- गच्छन्ति । काम् ? उन्मुखबर्हिणतां - मूर्धवक्रमयूरयुक्तत्वम् । कीदृश्यः ? उच्चा- उच्छ्रिताः । कीदृशे शैले ? उच्चावचसानौ । उच्चाउच्छ्रिता अवचा - नीचा: सानवः- प्रस्था यस्मिन् स तथोक्तस्तस्मिन् । केन कृत्वा ? वचसा- वचनेन । कयोः ? नौ- आवयोः । मेघगर्जिताशङ्कया । तथा याचित इव - प्रार्थित इव । कः ? त्वं भवान् । केन ? अमुना - गोवर्धनेन । शृङ्गारोहित्वं- शिखरारोहणम् । कैः कृत्वा याचितः ? अम्बुनादैः- वहज्जलशब्दैः । कीदृशस्त्वम् ? शसितरिपुस्त्रीशृङ्गारः । शसित:'अपनीतो रिपुस्त्रीणाम्- अरिवनितानां शृङ्गार - आभरणादिविभूषा येन स तथोक्तः, विनाशितशत्रुत्वात् । हिः स्वार्थे यस्मादर्थे वा ॥५०॥
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy