SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६६ तस्येयमकार्येभ्यश्च्युतेन तनयेन रचितयमकाऽऽर्येभ्यः । .. दत्ता वाक् स्वा कृतिना मानाङ्केन हरिसंश्रया स्वाकृतिना ॥१२॥ तस्योग्रसेनस्य राज्ञस्तनयेन- पुत्रेण दत्ता- समर्पिता । काऽसौ ? वाक्- काव्यरूपा वाणी । किम्भूता ? स्वा- आत्मीया । तथेयं प्रत्यक्षा । तथा हरिसंश्रया- हरिनायकाधारा । कीदृशेन तनयेन ? कृतिना- पण्डितेन । तथा मानाङ्केन- मानचिह्नन । तथा स्वाकृतिना- शोभनाकारेण । सुरूपेणेत्यर्थः । तथा च्युतेन- नष्टेन । केभ्यः ? अकार्येभ्यः । परद्रोहाद्यकार्यरहितेनेत्यर्थः । केभ्यो दत्ता ? आर्येभ्य:- शिष्टेभ्यः । वाक् कीदृशी ? रचितयमकाकृतसदृशाक्षरन्यासा ॥१२॥ अथ जग्मतुरुरु मत्तौ वयसा वृन्दावनान्तरं रुरुमत् तौ । .. हरिराहितकुमुदसितः स्निग्धतराङ्गस्तथा हली कुमुदसितः ॥१३॥ अथाऽनन्तरं तौ- हरिबलौ वृन्दावनान्तरं- वृन्दावनाभिधानवनमध्यं जग्मतुः- गतवन्तौ । कीदृशम् ? उरु- विस्तीर्णम् । तथा रुरुमत् । रुरवोमृगविशेषा विद्यन्ते यस्मिन् तत् तथोक्तम् । तौ कीदृशौं मत्तौ- मदयुक्तौ । केन? वयसा- तारुण्यावस्थया । कीदृशो हरिः ? कीदृशश्च बलः ? हरिःविष्णुराहितकुमुत् । आहिसात्कृता को:- पृथिव्या मुत्- हर्षो येन स तथोक्तः । तथाऽसितः- कृष्णः । तथा स्निग्धतराङ्गः । स्निग्धतरमतिशयस्निग्धं दीप्तिमदङ्गशरीरं यस्य स तथोक्तः । तथा हली- बलः कुमुदसितः- कैरवशुभ्रः ।।१३।। उदधिपयोनिर्घोषं तत्र निवेश्याऽच्युतोऽपयोनि?षम् । अवि(व)चिन्तितकंसबलश्चचार भेजे च यामुनं कं सबलः ॥१४॥ अच्युतो- हरिश्चचार- बभ्राम । क्व ? तत्र- वृन्दावनमध्ये । न केवलं चचार, भेजे च- सिषेवे च । किं तत् ? कं- जलम् । किम्भूतम् ? यामुनं- कालिन्दीसत्कम् । कथम्भूतोऽच्युतः? अवि(व)चिन्तितकंसबलः । अवि(व)चिन्तितमगणितं कंसस्याऽसुरस्य बलं- सैन्यं सामर्थ्य वा येन स तथोक्तः । तथा सबलो- बलभद्रसहितः । तथा अपयोनिः । अपगता योनिःकारणं यस्य स तथोक्तः । किं कृत्वा चचार ? निवेश्य- स्थापयित्वा । कम् ? घोषं- गोकुलम् । कीदृशम् । उदधिपयोनिर्घोषम् । उदधिपयस इव समुद्रजलस्येव निर्घोष:- शब्दो मध्यमानदध्यादेर्यस्मिन् तत् तथोक्तम् ॥१४॥
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy