________________
फेब्रुआरी - २०१५
४९ इव ? भोक्तेव । कस्याः ? सुधायाः । अमृतस्य देव इत्यर्थः ।
तथा वर्णकविरचुन्दिता(निन्दिता?)र्थकर्ता यस्य चोग्रसेनस्य कीर्तियशः प्रचक्षते । कीर्तिवादनंवा(कीर्तिर्वा दानम्?) । कीदृशीम् ? परांप्रकृष्टाम्। केषु ? तटेषु- रोधःसु । केषाम् ? उदधीनां- समुद्राणाम् । किम्भूताना(ताम्) ? मुदधीनाम् । मुदो- हर्षस्याऽऽधीना- आयत्ता मुदधीना तां, हर्षयुक्तामित्यर्थः । समुद्रपर्यन्ता यस्य दानं कीर्तिर्वेत्यर्थः ॥९॥
भरत इव विभावसवः सर्वेषां प्राणिनामथ विभावसवः । यस्मिन् वसुधामवति स्थिरा बभूवुः समाश्च वसुधामवति ॥१०॥
तथा यस्मिन्नुग्रसेने वसुधां- पृथिवीमवति- रक्षति सति । कीदृशे ? विभौ- प्रभौ । विभावसवो- अग्नयः स्थिरा- अचला बभूवुर्नित्यज्वलिता इत्यर्थः । अथाऽनन्तरमसवः- प्राणाश्च स्थिरा बभूवुः । अकाले न मृत्युरित्यर्थः । तथा समाश्च- वर्षाणि च स्थिरा बभूवुः- परिपूर्णाः सञ्जाताः । न दिनापातादूना इत्यर्थः । यदि वा असवः कीदृशाः ? समाः । सह माभिर्लक्ष्मीभिर्वर्तन्ते इति समाः । अयमर्थः- असवो लक्ष्यश्च स्थिरा- अचञ्चलाः सञ्जाताः । केषाम् ? सर्वेषां प्राणिनाम्- सकलजन्तूनाम् । यागादिधर्मकरणशीलत्वात् । कस्मिन्निव? भरत इव । यथा भरतचक्रवर्तिनि प्रभावग्न्यादयः सर्वे सर्वजन्तूनां स्थिरा बभूवुरित्यर्थः । कीदृशे भरते उग्रसेने च ? वसुधामवति । वसूनि च रत्नानि धाम- तेजश्च वसुधामानि । तानि विद्यन्ते यस्य स तथोक्तस्तस्मिन्निति ॥१०॥
अनुकत्य रघो राज्ञः प्रत्याख्यातासनः प्रभुरघोराज्ञः । - योगिभिरित्यस्तमितः केशवमाप्नोमि नाथमित्यस्तमितः ॥११॥ ... यश्चोग्रसेनोऽस्तमितः- विनष्टो मृत इत्यर्थः । कस्माद्धेतोः ? तं केशवं नाथ- हरिस्वामिनमाप्नोमीति हेतोः । य: केशव इत्य:- ज्ञेयः । कैः ? योगिभिर्ध्यानारूढैः । किम्भूतः सन्नुग्रसेन ? इतो- गतः, संसारादिति गम्यते । इतोऽस्मात् स्थानाद् वा । कीदृशः ? प्रत्याख्यातासन:- त्यक्तभोजनः । तथाऽघोराज्ञो- अरौद्रशासनः । तथा प्रभुः- स्वामी । किं कृत्वाऽस्तमितः ? अनुकृत्य- अनुकारं कृत्वा, प्रजापालनादिभिः सदृशो भूत्वा । कस्य ? राज्ञोनृपस्य । किनाम्नः ? रघो:- दिलीपसूनोः ॥११॥