SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४८. अनुसन्धान-६६ अधुना पितृभक्त्या स्वकीयपितृगुणवर्णनमाह - ग्रहपतिरिव हिमहीनः कान्त्याऽभूदुग्रसेन इति हि महीनः । प्रकृतिभिररिहेतीह स्वयंवृतः संहताभिररिहेतीहः ॥७॥ 1 इह - जगति महीनो - राजाऽभूद्- बभूव । किंनामा ? उग्रसेन इत्युग्रसेनाभिधानो हिर्व्यक्तम् । कीदृश इव ? ग्रहपतिरिव - चन्द्रतुल्यः । कया ? कान्त्या - कान्तत्वेन । कीदृशो ग्रहपतिः ? हिमहीन:- तुषाररहितः । कथम्भूत उग्रसेनः ? [ इह ] स्वयंवृत- आत्मनैव परिवारितो बहुगुणत्वात् । काभिः ? प्रकृतिभिरमात्यादिभिः । कीदृशीभिः ? संहताभिःपरस्परसम्बद्धाभिः। कुतः स्वयंवृतः ? अरिहेति । अरीन्ं - शत्रून् हन्तीत्यरिहेति तो: । तथा अरिहेतीहः । अरानि (णि) विद्यन्तेऽस्याऽरि - चक्रं, तद् हेतिप्रहरणं यस्य सोऽरिहेतिर्हरिस्तस्यैवेहा - चेष्टा यस्य स तथोक्तो विष्णुसमव्यापार इत्यर्थः । यद्वाऽरीणि च तानि हेतयश्च अरिहेतयस्तैरीहते - चेष्टते इति अरिहेतीहश्चक्र-: प्रहरणव्यापारः ॥७॥ बलभिदरीभागानां जेता विन्ध्यर्क्षवद्दरीभागानाम् । शौक्यादाशार्हस्य प्रभवो यशसः समश्च दाशार्हस्य ॥८॥ कीदृशो यो ? बलभिद् । बलं - सामर्थ्यं भिनत्ति - विदारयतीति बलभित् - शक्तिनाशकः । केषाम् ? अरीभागानाम् । अरीभा:- शत्रुगजास्ते एवाऽगाः- पर्वता महत्त्वाद् दुर्जेयत्वाच्चाऽरीभागास्तेषाम् । तथा जेता - पराभविता । केषाम् ? विन्ध्यर्क्षवद्दरीभागानाम् । विन्ध्यश्च ऋक्षवांश्च विन्ध्यर्क्षवन्तौ गिरिविशेषौ । तयोर्दरीभागा:- कन्दरप्रदेशा विषमत्वाद् दुर्जेयास्तेषां तत्रस्थारिलोकानाम् । तथा प्रभवो - जनकः । कस्य ? यशसः - कीर्तेः । कीदृशस्य ? आशार्हस्य | आशा - दिशोऽर्हति - पूजयति मण्डयति वाऽऽशार्हः तस्य । कुत: ? शौक्ल्यात् - शुभ्रत्वात् । तथा समश्च - तुल्यश्च । कस्य ? दाशार्हस्य - विष्णोः ॥८॥ यो भोक्तेव सुधाया वर्णकवि: शासिता च यो वसुधायाः । यस्य परामुदधीनां तटेषु कीर्तिं प्रचक्षते मुदधीनाम् ॥९॥ यश्चोग्रसेन: शासिता - रक्षकः । कस्या ? वसुधाया:- पृथिव्या: । क
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy