SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ तं देवं सुरं स्तौमि - वन्दे । किमभिधानम् ? लाङ्गलवन्तम् । लाङ्गलं- हलं विद्यते यस्याऽसौ लाङ्गलवान्, तं बलभद्रम् । यो हली संयुगेसङ्ग्रामेऽकरोत्- चकार । कम् ? कपिं - वानररूपं दानवम् । किमभिधानम् ? द्विविदं द्विविदनामानम् । कथम्भूतमकरोत् ? असुरहितम् । असुभिः प्राणै रहितं- त्यक्तं, निर्जीवमित्यर्थः । कीदृशम् ? असुरहितम् । असुरेभ्यो - दानवेभ्यो हितोऽनुकूलोऽसुरहितस्तम् । तथा चलाङ्गलवम् । चलाश्चञ्चलाः सव्यापारा युद्धक्षमा वा अङ्गलवा - हस्तपादादयो यस्य स चलाङ्गलवस्तम् । कस्मादसुरहितमकरोत् ? दृढमुष्टिताडनाद् - निबिडमुष्टिप्रहाराद् हेतोः ॥४॥ - आपानपरम्परया भेजे यं रेवती जितपरं परया । बिभ्रतमालानाभौ बाहू मग्नकुसुमाश्च माला नाभौ ॥५॥ ४७ तथा यं बलभद्रं रेवती बलभद्रभार्या भेजे- सिषेवे । कया ? आपानपरम्परया- मधुपांनसन्तत्या । कीदृश्या ? परया- उत्कृष्टया । कीदृशं बलम् ? जितपरम् । जिता - अभिभूताः परे - शत्रवो महाबलत्वाद् येन स यथोक्तस्तम् । किं कुर्वन्तम् ? बिभ्रतं धारयन्तम् । कौ ? बाहू - भुजौ । कीदृशौ ? आलानाभौ । आलानस्येवाऽऽभा - छाया - शोभा ययोस्तौ तथोक्तौ । हस्तिबन्धनस्तम्भतुल्यौ प्रलम्बत्वात् स्थूलत्वाच्च । तथा मालाश्च- स्रजश्च बिभ्रन्तम् । कीदृशीः ? मग्नकुसुमा:- प्रविष्टपुष्पाः । क्व? नाभौ ॥५॥ I यो रूढमदारुणया तन्वा प्रणतं प्रति द्विषमदारुणया । कर्षितदानवकुलया विबभौ गन्धविजितेभदानबकुलया ॥६॥ यश्च बलो विबभौ - विशेषेण शुशुभे । कया ? तन्वा - शरीरेण । कीदृश्या ? रूढमदारुणया । रूढमदेन - पुरातनमद्येनाऽऽरुणा- रक्ता निरन्तरं पानात् सा तथोक्ता तया । तथाऽदारुणया - अरौद्रया । कं प्रति ? द्विषं प्रतिशत्रुं लक्ष्यीकृत्य । कीदृशम् ? प्रणतं - प्रणामपरम् । तथा कर्षितदानवकुलया । कर्षितं- विनाशितं दानवकुलमसुरवृन्दं यया सा तथोक्ता तया । तथा गन्धविजितेभदानबकुलया । इभदानं च करिमदो बकुलानि च बकुलपुष्पाणि । गन्धेन- आमोदेन विजितान्यभिभूतानि इभदानबकुलानि यया सा तथोक्ता तया । मदगन्धवासितत्वात् स्वभावसुगन्धित्वाच्च ॥६॥
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy