________________
४६
अनुसन्धान-६६
कुर्वता । किं तत् ? दैत्यचक्रं - दैत्यवृन्दम् । अवश्यमेव हि पुत्रविनाशे मातुर्दुःखाद् रोदनं भवतीति ॥ १ ॥
स्वमिव भुजङ्गवि शेषं व्युपधाय स्वपिति यो भुजङ्गविशेषम् । नवपल्लवसमकरया श्रियोर्मिपङ्क्त्या च सेवितः समकरया ॥२॥ तथा यो हरिः स्वपिति - शेते । क्व ? गवि - समुद्रजले । किं कृत्वा ? व्युपधाय - गण्डोपधानीकृत्य । कम् ? भुजङ्गविशेषं- सर्पराजम् । किंनामानम् ? शेषं- शेषाभिधानम् । कमिव ? भुजमिव - बाहुमिव । स्थूलत्वाद् दीर्घत्वाच्च। किम्भूतम् ? स्वमात्मीयम् । कथम्भूतो हरिः ? सेवित - आश्रित: । कया ? श्रिया - लक्ष्म्या । कीदृश्या ? नवपल्लवसंमकरया । नवपल्लवैः समौ करौ यस्याः सा नवपल्लवसमकरा, तया । रक्तत्वेन कोमलत्वेन च नूतनकिसलयतुल्यहस्तया । न केवलं श्रिया सेवितः ऊर्मिपङ्क्त्या चकल्लोलमालया च । कीदृश्या ? समकरया । सह मकरैर्जलचरजन्तुविशेषैर्वर्तते या सा समकरा, तया समकरया ॥२॥
येन च बलिरसुरोऽधः क्षितेरवस्थापितः सुरैरसुरोधः । पृथुकः सन्निभवदनः चिक्षेप च यः सरोजसन्निभवदनः ||३|| तथा येन च हरिणा क्षितेर्भूमेरधोऽधस्तादवस्थापितो- निहितः । कोऽसौ ? असुरो - दानवः । किंनामा ? बलिः । कीदृश: ? सुरैर्देवैः शक्रादिभिरसुरोधो न सुखेन रुध्यते - ध्रियते निवार्यते वाऽतिबलत्वादित्यसुरोधः ।
तथा यो हरिश्चिक्षेप च- प्रेरितवान् । किं तत् ? अन:- शकटम्। क इव ? इभवत्- करीव । यथा करी शकटं क्षिपति, तथा शकटरूपमसुरं क्षिप्तवानित्यर्थः । किम्भूतः सन् ? पृथुको - बालः सन् । तथा सरोजसन्निभवदन:- पद्मतुल्यमुखः ।
चकारः सर्वत्र समुच्चये । श्लोकत्रयेणाऽऽदिकुलकम् ॥३॥
साम्प्रतं हरिभ्रातृत्वेन पूज्यत्वादत्र काव्ये वर्णनीयत्वाच्च बलभद्रस्य
स्तुतिमाह
स्तौमि च लाङ्गलवन्तं देवं यः संयुगे चलाङ्गलवं तम् । कपिमकरोदसुरहितं द्विविदं दृढमुष्टिताडनादसुरहितम् ॥४॥