SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ . तदर्थमनुष्ठानं वृथा । तत्रोत्तरं - मोक्षो हि बन्धपूर्वकः । स शुद्धनिश्चये नाऽस्त्यतो मोक्षोऽप्यात्मनो नाऽस्ति । यदा शुद्धनिश्चयेन बन्धः, तदा सर्वदैव बन्ध एव ॥" - ६९(६८) गाथा । ___ "छद्मस्थानां सत्तावलोकनदर्शनपूर्वकं ज्ञानं भवति तत्र दर्शनचतुष्टयमध्ये द्वितीयं यदचक्षुर्दर्शनं मानसरूपं निर्विकल्पं भव्यस्यैव मोहस्य चारित्रस्य क्षये क्षयोपशमोपशमलाभे सति शुद्धात्मानुभूतिरूपं वीतरागसम्यक्त्वं शुद्धात्मानुभूतिध्यानेन सहकारिकारणं भवति भव्यस्यैव, न त्वभव्यस्य, निश्चयसम्यक्त्वचारित्रा भावात् ॥" - ६१(?) गाथा "चित्ते बद्धे बद्धो, मुक्के मुक्को त्ति नत्थि संदेहो । अप्पा विमलसहावो, मयलिज्जइ मयलए चित्ते ॥" - ६५(?) गाथा अथ केचन वदन्ति - यदात्माऽशुद्धत्वेन परिणमतीत्युल्लेखेन कथं नाऽऽत्मनोऽशुद्धपरिणामोऽप्यात्मस्वभाव इति । तन्न, स्वभावस्य पर्यायः परिणामो न भवति । यदुक्तं भगवत्यां १२ शते उद्दे० २ - "भवसिद्धियत्तणं भंते! जीवाणं किं सभाओ परिणामओ ? जयंती! सभावओ न परिणामओ ॥" एतद्वृत्तिः - "सभावओ त्ति स्वभावतः पुद्गलानां मूर्तत्ववत् । परिणामओ त्ति परिणामेनाऽभूतस्य भवनेन पुरुषस्य तारुण्यवत् ।" इति । एतेन स्वभावः जीवसहचारि(य)विष्वग्भावसम्बन्धेन सर्वदाऽनुत्थानरूपः, परिणामस्तु परमाणुसंयोग-जन्योत्थानरूपः । - पनवणायां ५ (१३) पदे परिणामो ह्यर्थान्तरगमनम् । तच्च संयोगविशेषः संयोगजन्योपाधिः । यथा नीरोपरि बुबुदः नीरपरिणामः कथं शुद्धपरिणामः(?) .स शुद्धस्वभाव इति स तु कथनमात्रं यथा जीवस्य भव्यत्वं स्वभावतः, न परिणामत इत्यलं प्रसङ्गेन । [सिद्ध] सिद्धानां स्वतो नोत्पादव्यय [इति]| १ ततो जातं जीवकर्मणोरनादिसंयोगजन्यपरिणामोपाधित्वम् । यदुक्तं ठाणांगवृत्तौ - ‘एगबंधे'त्ति बन्धनं बन्धः सकषायत्वाद्, द्रव्यतो बन्धो निगडादिः, भावतः कर्मणा ।' ... १. प्रापणम् । २. भव्यत्वं सिद्धिगमनकारणं, न त्वन्यत् किञ्चित् । तत्र सत्यपि भव्यत्वे सिद्धिगमनकारणे कियता कालेन निर्लेप ? इति भगवतीवृत्तौ शते १२ उ० २ । अत्र युक्तिभव्याभावोऽभव्यः स्वभावनिषेधः । [स्पष्टत्वार्थं जिज्ञासुभिवृत्तिरेव द्रष्टव्या ।]
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy