________________
अनुसन्धान-६६
त्वादयः । जीवस्तु "अवण्णे अगंधे अरसे अफासे" इति प्रज्ञापनायां व्यक्तमेव।
यथा - धर्मास्तिकायस्य चलनगुणः १ अधर्मास्तिकायस्य स्थितिगुणः २ आकाशस्याऽवकाशगुणः ३ कालस्य वर्तनागुणः ४ जीवस्योपयोगगुणः ५ पुद्गलस्य ग्रहणगुणः ६ । ग्रहणं परस्परेण बन्धनं जीवेनै(वस्यौ)दारिकादिभिरिति वृत्तौ भग० शत० २ उद्दे० १ । ग्रहणसाहचर्यान्मोचनमपि । तेन पूरणगलनधर्मा पुद्गलः सिद्धः । तथा च पुद्गलस्यैकगुणकालत्वादयः सादयोऽपर्यवसाना भवन्ति । द्रव्यार्थिकनये सिद्धगुणपर्यायास्तादात्म्यरूपाः स्वस्वरूपा एव । यथा कतकक्षोदेन समलजलस्य मलस्याऽधोभावेन स्वाभाविकी स्वच्छता । असत उत्पादाभावाद् व्योमारविन्दवत् । ततः स्वरूपतः सिद्धानामुत्पादव्यय[वत्]त्वं दु - त्वमेव ।
अथ जीवकर्मणोरनादिसम्बन्धाद् जीवस्य स्वभावशक्ति-विभावशक्तिद्वयैः(शक्ती) सदैव' सर्वत्र' सहचारिण्यौ भवत इति मन्यन्ते केऽपि । तदयुक्तं सिद्धान्ताभिप्रायापरिज्ञानात् । नित्यसहजानन्दैकाखण्डामृतरसमय आत्मा स्वभावस्थः । अशुद्धपरिणामो हि मोहनीयादिकर्मपरमाणुसंयोगजन्यो विभावः स्पष्ट एव । ततो विरोधव्याघातशङ्कुगणावकाश एव । तदुक्तं परमात्मप्रकाशवृत्तौ -
"आत्मा शुद्धद्रव्याथिकनयेन शुद्धोऽपि. सन् अनादिसन्तानागतज्ञानावरणीयादिकर्मबन्धप्रच्छादितत्वाद् वीतरागनिर्विकल्पसहजानन्दैकसुखास्वादमलभमानो व्यवहारनयेन त्रसो वा स्थावरो वा भवति, तेन जगत्कर्ता भण्यते । नाऽन्यः कोऽपि परकल्पितः परमात्मेति अयमेव शुद्धात्मोपादेयः ॥" - ४० गाथा
"द्रव्यार्थिकनयेन भावाभावरहितो वीतरागनिर्विकल्पसदानन्दैकस्वभावसमाधिना जिनवरैर्देहेऽपि दृष्टः ॥" - ४४(४३)गाथा
"निश्चयनयेन कर्मैव बन्धं च मोक्षं च करोति, न त्वात्मा किमपि, नित्यत्वात्, नित्यस्याऽकिञ्चित्करत्वात् । यद्यप्यनुपचरितासद्भूतव्यवहारेण द्रव्यबन्धमशुद्धनिश्चयेन भावबन्धं मोक्षं च करोति, तथापि न शुद्धपारिणामिकपरमभावग्राहकेन(ण) शुद्धनिश्चयेन करोति ॥" - ६५ गाथा
"व्यवहारेण जीवस्य बन्धमोक्षौ स्तः, निश्चयेन मोक्षो नाऽस्तीति चेत् १ सर्वकालम् । २. मुक्तावस्थादौ । ३. अनादिसंयोगान्मोहादेः।