________________
फेब्रुआरी - २०१५
२५
नाणं च दंसणं चेव, अव्वाबाहं तहेव सम्मत्तं । अक्खयट्ठिइ अरूवी, अगुरुलघुवीरिअं हवइ ||" इत्यनुयोगद्वारे बहु वक्तव्यम् १९ पत्रे
क्षायिकत्वान्नित्याश्रयित्वान्नित्या गुणाः । गुणगुणिनोरभेदत्वं निश्चयतः अप्रच्युतानुत्पन्नस्थिरैकरूपत्वं (रूपं) नित्यत्वं त्रिकालेऽप्येकरूपं वा; तर्हि नित्यानामेषां पर्यायत्वं [न] सम्भवन्ति (ति) । ते हि क्रमभाविनः परिणामिनश्च । सत्यं, सर्वसंसार(रि)पर्यायेभ्यः पश्चात्क्रमेणोद्भूताः (ता) ज्ञानादिपर्यायाः परिणामिन:(न) आत्मन्यभेदरूपा:(पा) नित्याः, ज्ञेयतापश्यता (त्ता) दिगुणानां नित्यत्वात् ।
. ६ ।
अपरं सिद्धानां ज्ञानं सर्वदा सर्वगुणपर्यायवत्परिच्छेदरूपं नित्यानित्यं भिन्नाभिन्नं बुद्धिकृतं (तम्), आकाशबद्धस्तु गत्या (आकाशवद् वस्तुगत्या?) ऽनित्यमेव २(?) । तथा सर्ववस्तुयुगपत्परिच्छेदरूपं नित्यं २ ( ? ) । आत्मस्थिरतारूपं सर्वव्यापारानी (नि) च्छारूपं चारित्रं क्षायिकं नित्यम् ३ । अनन्तानां गुरुलघुपर्यायाणां तन्मयपरिणमनाभावेन प्रतिभूत्वग्राहकशक्तिरूपपर्यायाविकलकलाप्रकटनोद्भूतपरमाह्लादरूपं निरञ्जनमरूपित्वं सिद्धम् ४। अगुरुलघु ( गुरुलघु ? ) - पर्यायाणामभावादगुरुलघुत्वं नित्यम् ५ । विघ्नाभावेनाऽविकलवीर्योल्लासः नित्यः
निश्चयतोऽनाद्यपर्यवसितत्वमेषां सिद्धानां निश्चयतः स्याद्वादस्य योग्यताया अभावादुत्पादव्यय[वत्]त्वं दुर्घटमेव । तेषां स्याद्वादे मन्यमाने मुक्ताऽमुक्ताः (मुक्ता अमुक्ता) दोषमुक्ता दोषयुक्ता ज्ञानिनोऽज्ञानिनश्चेति प्रतिबन्दीयुक्त्या साङ्ख्यमतवत्(द्) मुक्तोऽमुक्तश्चाऽऽत्मा स्याद् भवतां जैनानामपीति सप्रतिपक्षानेकधर्मसमाश्रयः स्याद्वादः पूर्वप्रपञ्चित एव । तत उपचारात् सांसारिकपर्यायानां(णां) ज्ञेयत्वलक्षणपरिणमनेन नवपुराणादिकर्ता कालः तत्पर्यायसमयक्षणलवमुहूर्तवदनित्य इतिवत् सिद्धं सिद्धानामुत्पादव्यय[वत्]त्वम् ।
अथ केचन सिद्धजीवस्य स्यादुत्पादव्यय [ वत् ] त्वं यथा पुद्गलस्य "एगगुणकालए दुगुणकालए संखिज्जगुणकालए एवं हीणे वि" इति सिद्धान्तमतमङ्गीकृत्य मन्यन्ते, तत् सिद्धान्ताभिप्रायापरिज्ञानात् । तावत् पुद्गलस्य शब्दार्थो विचारणीयः । पूरणगलनधर्मः पुद्गलः । यतः पूरणगलनस्वभावयोग्यता पुद्गले एव, ‘अणंता वण्णपज्जवा जाव गंधरसफाससंठाणपज्जवा', वर्णा एकगुणका [ल]