SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २५. अनुसन्धान-६६ दृष्टिभिरनन्ताभिः केवलदर्शनैरिति पनवणा २१ पदे [सूत्र ६४] । .. तथा अनन्तकेवलज्ञानमनन्तपर्यायपरिच्छेदात्मकं ज्ञेयानामानं स्यात् (मानन्त्यात्) । अनन्तज्ञेयपश्यत्तारूपं दर्शनम् । अनन्तपर्यायानीछा(निच्छा?)रूपं चारित्रम् । अनन्तगुरुलघुपर्यायाणां ज्ञातृत्वेनाऽनन्ता गुरुलघुपर्यायाः उपचारात् कार्ये अनन्ताऽगुरुलघुपर्यायानां(णां) ज्ञेयत्वेनाऽनन्ताः “जाणंता सव्वभावगुणभावे" . इति सूत्रात् । तथा चाऽष्टकर्मसमूलोन्मूलनेनाऽष्टौ गुणाः, तदावरणान्यष्ट कर्माणि, तदावरणक्षये सम्पूर्णगुणभासः, दीप: कुण्डकाच्छादितस्तन्मात्रां भुवं प्रकाशयति, गृहगस्तन्मात्रमिति तत्प्रमाणम् । "अक्खरस्साणंतो भागो निच्चुग्घाडिओ चिट्ठइ" त्ति ज्ञानस्याऽनन्ततमो भागः(गो) नित्योद्घाटितः, अन्येऽशा दर्शनचारित्रागुरुलघुरूपवीर्याणां तदावृत्यावृताः । ज्ञानस्योपलक्षणं चारित्रादीनाम् । सकलज्ञानावरणक्षयात् सकलवस्त्ववभासि ज्ञानं(न)गुणः १ दर्शनावरणक्षयाद् युगपद् दर्शनगुणः २ वेदनीयक्षयादव्याबाधगुणः ३ मोहनीयक्षयात् क्षायिकसम्यक्त्वचारित्रगुणः ४ आयुःक्षयादक्षयस्थितिगुणः ५ नामकर्मक्षयादौदारिकादिशरीरोपाङ्गगुरुलघुपर्यायक्षयादरूपिगुणः ६ गोत्रक्षयादगुरुलघुगुणः, गुरुरुच्चैर्गोत्रं लघुर्नीचेोत्रं तदत्यन्ताभावगुणः ७ अन्तरायक्षयात् समग्रवीर्यस्फुरणम् ८ । उक्तम् - "इह नाणदसणावरण-वेअमोहाउनामगोआणि । विग्धं कम्मट्ठक्ख(ख)ए, अट्ठ गुणा हुंति सिद्धाणं ॥ १. अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् ।। अनन्तं दर्शनं चाऽपि, दर्शनावरणक्षयात् ॥ क्षायिके शुद्धसम्यक्त्वे, चारित्रमोहनिग्रहात् । (शुद्धसम्यक्त्वचारित्रे, क्षायिके मोहनिग्रहात् - गुणस्थानक्रमारोहः) अनन्तसुखवीर्ये च, वेद्यविघ्नक्षयात् क्रमात् ॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयात्(देवाऽ)मूर्तानन्तावगाहना ॥ इति सेनप्रश्ने ८८ ॥ २.३. नाऽज्ञातं श्रद्धीयते नाऽ श्रुतं सम्यगनुष्ठीयते इति क्रमः तत्रैव (ठाणां वृ०) पत्रे १६ ।
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy