________________
फेब्रुआरी - २०१५
३ अधर्मास्तिकाय ४ काल ५ पुद्गल ६ जीव ७ समय ८ कर्म ९ भाव[कृष्ण]लेश्या १० भावशुक्ललेश्या ११ दृष्टि १२ ज्ञान १३ अज्ञान १४ संज्ञा १५ कार्मणकाययोग १६ मनोयोग १७ वचनयोग १८ साकारोपयोग १९ भ्रमणचित्त २० अनाकारोपयोग २१ परमाणु २२ अतीताद्धा अनागताद्धा २३ राजप्रश्निकवृत्तौ सिद्धक्षेत्र २४ ज्योतिष्कविमानादीनि एतेऽगुरुलघवः । भग० श० १. उ० ९ ।
ततः संसारिजीवानां निश्चयेनोत्पादव्यय[वत्]त्वं द्रव्य-पर्यायाभ्यां सिद्धम्। सिद्धानां व्यवहारेण तूपचारेणैव सिद्धम् । द्रव्यभावकर्मवर्मनिर्मितानां सर्वथा मुक्तात्मनामुत्पादव्यय[व]त्त्वं न, गुरुलघुपर्यायाणामभावादिति चेद् ? न, तेषामपि तत्पर्यायाणां सद्भाव आगमप्रामाण्यात् । भग० शत० १(२) उद्दे ०९(१) सिद्धसूत्रम् - . "जे वि य णं खंदया! [दव्वओ] एगे सिद्धे सअंते, खित्तओ णं सिद्धे असंखिज्जपएसे असंखिज्जपएसोगाढे अत्थि पुण से अंते, कालओ णं सिद्धे सादिए अपज्जवसिए निच्चे नत्थि पुण से अंते, भावओ णं सिद्धे अणंता
णाणपज्जवा' अणंता दंसणपज्जवा जाव अणंता अगुरुलहुपज्जवा नत्थि पुण : से अंते ।"
इति सूत्रप्रामाण्यात् सिद्धानामुत्पादव्यय[वत्]त्वमिति चेद् ? न, सिद्धान्तापरिज्ञानात् । किमुच्यते ? औदारिकादयो गुरुलघुपर्यायाः वृत्तावुक्तास्ते सम्भवन्ति न सिद्धे, तदा जीवशब्देन किं (कस्य) ग्रहणम् तद् वदन्तु भवन्तः । कार्मणादिका गुरुलघवः । ते हि तादात्म्यावभासिपरमाह्लादाखण्डबोधरूपे परमात्मनि ..न सम्भवन्ति । उच्यते सिद्धस्वरूपम् -
"केवलनाणोवउत्ता, जाणंता सव्वभावगुणभावे ।
पासंति सव्वओ खलु, केवलदिट्ठीहिऽणंताहिं ॥" [१६०] केवलज्ञानोपयुक्ता जानन्ति- अवगच्छन्ति सर्वभावगुणभावान्- सर्वपदार्थगुणपर्यायान् । प्रथमो भावशब्दः पदार्थवाची द्वितीयः पर्यायवाची । सहभाविनो गुणाः क्रमभाविनः पर्यायाः । तथा पश्यन्ति सर्वप्रकारैः, खलुरवधारणे, केवल.१. सिद्धमाश्रित्यैतत्पाठस्याऽकृतान्यार्थत्वात् तदेवार्थेऽनुमीयते । तद्वृत्तिपाठः - ज्ञानपर्याया
[ज्ञानविशेषा] बुद्धिकृता वाऽविभागपरिच्छेदाः ।