________________
अनुसन्धान-६६
पतितहानिवृद्धिरूपपर्यायापेक्षया प्रतिसमयं सम्भवति तत् सूत्रालापकेन समर्थयति (भग. श. २ उ. १ खंदाधिकारे) -
"जीवे णं भंते! सअंते जीवे अणंते जीवे ? खंदया! दव्वओ णं एगे जीवे सअंते । खित्तओ णं जीवे असंखिज्जपएसे असंखिज्जपएसोगाढे, अस्थि पुण से अंते । कालओ णं जीवे न कदाइ [न] आसी न कयाइ [न] भविस्सइ जाव धुवे णंतप (निअए?) सासए अक्खए अव्वए अवट्ठिए णिच्चे, णत्थि पुण से अंते । भावओ णं जीवे अणंता णाणपज्जवा अणंता दंसणंपज्जवा अणंता चारित्तपज्जवा अणंता गुरुलहुपज्जवा अणंता अगुरुलहुपज्जवा, नत्थि पुण से अंते ।"
तवृत्तिः - 'अणंता' इत्यारभ्य 'इति वृत्ता'वित्यन्तोंऽशः लोकपर्यायसम्बन्धी। अणंता वण्णपज्जव त्ति वर्णपर्यायाः वर्णविशेषाः एकगुणकालत्वादयः । गुरुलघुपर्यवाः तद्विशेषाः बादरस्कन्धानाम् । अगुरुलघुपर्यवाः अणूनां सूक्ष्मस्कन्धानाममूर्तानां वा इति वृत्तौ । ध्रुव अचलत्वात् । नियत एकरूपत्वात् । कादाचित्कोऽपि स्यादत आह - शाश्वतः प्रतिक्षणसद्भावात् । स च नियतकालापेक्षयाऽपि स्यादत आह - अक्खए त्ति अक्षयः अविनाशित्वात् । अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादत आह- अव्ययस्तत्प्रदेशानामव्य[य]त्वात् । अयं च द्रव्यतयाऽपि स्यादत आह - अवट्ठिए त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् । किमुक्तं भवति ? नित्य इति । अणंता णाण त्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः । अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य । इतरे तु कार्मणानि(दि)द्रव्याणि जीवस्वरूपं चाऽऽश्रित्येति ।
गुरुलघुपर्यवाः कियन्तः ? घनोदधि १ घनवात २ तनवात ३ अन्यवात ४ [५(?)] आकाशप्रतिष्ठिता पृथ्वी ६ सागर ७ वैक्रिय-तैजसशरीर ८-९ पुद्गलद्रव्य १० द्रव्यकृष्णलेश्या ११ द्रव्यशुक्ललेश्या १२ औदारिकशरीर १३ आहारकशरीर १४ काययोग(गा) १५ एते ।
के अगुरुलघवः पर्यायाः ? आकाश १ कार्मणशरीर २ धर्मास्तिकाय
१. गुरुलघुपर्यायोपेतं गुरुलघु, अगुरुलघुपर्यायोपेतमगुरुलघु इति तैजसद्रव्यासन्नं गुरुलघु,
भावद्रव्यासन्नं त्वगुरुलघु इति विशेषावश्यकेश्वधिप्रस्तावे पत्र १३ ।।