________________
फेब्रुआरी - २०१५
२१
तल्लक्षणं - १. एकस्मिन् वस्तुनि विरुद्धधर्मद्वयसमावेशः स्याद्वादः २. विरुद्धधर्मद्वयप्रतिपादनपरः वक्तुरभिप्रायविशेषः स्याद्वादः ३. वस्तुस्वरूपप्रतिपादनपरः श्रुतविकल्पः स्याद्वादः ४. अनुयोग० एकैकस्मिन् वस्तुनि सप्रतिपक्षानेकधर्मस्वरूपप्रतिपादनपरः स्याद्वादः । अस्यार्थः - एकस्मिन् जीवाजीवादी विरुद्धं यद्धर्मद्वयं नित्यानित्या-ऽस्तित्वनास्तित्वोपादेयानुपादेया-ऽभिलाप्यानभिलाप्यादिलक्षणं तत्प्रतिपादने- कथने प्रत्यलः श्रुतविकल्पः । स्याद्वादरलाकरे अत्राऽष्टादश दोषा उद्धर्तव्याः ।
विशेषावश्यके द्रव्यलक्षणमाह - दुः सत्ता, तस्या एवाऽवयवो विकारो वा द्रव्यमवान्तरसत्तारूपाणि द्रव्याणि । गुणा रूपरसादयः, तेषां समुदायो घटादिरूपो द्रव्यम् । यत् पर्याययोग्यं तदपि द्रव्यं राजपर्यायार्हकुमारवत् । स्वकीयान् गुणान् पर्यायान् व्याप्नोति तद् द्रव्यम् अथवा गुणपर्यायवद् द्रव्यम् । राजप्रश्निकवृत्तौ [सूत्र १९९] द्रव्यस्य नित्यत्वात् सकलकालभावित्वादेकरूपम् । ..अथ पर्यायलक्षणान्याह - पर्येति- उत्पत्ति विपत्तिं च प्राप्नोति स पर्यायः । उक्तम् -.
"अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ।
उन्मज्जन्ति निमज्जन्ति, जलकल्लोलवज्जले ॥" [ ] पर्यायो द्विधा - १. क्रमभावी २. सहभावी वा । सहभावी गुणः, क्रमभावी पर्यायः । यथाऽऽत्मनः सहभाविनः पर्याया विज्ञानशक्त्यादयः, क्रमभाविनः सुखदुःखहर्षशोकादयः पर्यायाः ।
तस्माद् द्रव्य-पर्याययोः स्वरूप[स्य] भिन्नत्वाद् व्यवहारनये भिन्नावेव . द्रव्यपर्यायौ राहोः शिरोवत् कथञ्चिद्भेदाभेदरूपौ । निश्चयनये तु गुणगुणिनोरभेदादुपचाराभावात् स्वतःस्वरूपस्य नित्यत्वाद् द्रव्यपर्यायावभिन्नावेव । यदुक्तम् -
"आत्मैव दर्शनज्ञान-चारित्राण्यथवा यतेः ।
यत् तदात्मक एवैष, शरीरमधितिष्ठति ॥" अथ संसारिजीवानां उत्पादव्ययध्रौव्यरूपं गुरुलघु अगुरुलघु षट्स्थान
... १. राज्ञः प्रश्ना राजप्रश्नाः, ते सन्ति यस्मिन् शास्त्रे तद् राजप्रश्नी[य]नामकम् ।