________________
अनुसन्धान-६६
एतेन किमुक्तम् ? स्याद्वादस्य यत्र योग्यता नाऽस्ति, तत्रैकान्तवादोऽपि न दूषणाय । यदुक्तं भग. श. १ उ. ३ -
"अत्थित्तं अत्थित्ते परिणमइ, नत्थित्तं नत्थित्त(त्ते) परिणमइ ॥" व्या० - अस्तित्वमङ्गुल्यादेरङ्गुल्यादिभावेन सत्त्वम् । उक्तम् -
"सर्वमस्तित्व(स्व)रूपेण, पररूपेण नाऽस्ति च ।
अन्यथा सर्वभावाना-मेकत्वं सम्प्रसज्यते ॥" . .. यथा मृद्रव्यस्य पिण्डप्रकारेण सत्ता ।
नत्थित्तं- नास्तित्वं पर्यायान्तरेणाऽस्तित्वरूपे परिणमति । नास्तित्वमत्यन्ताभावरूप[म्] । अत्यन्तमसतः सत्त्वं न खरविषाणवत् । उक्तम् -
"नाऽसतो जायते भावो, नाऽभावो जायते सतः ।।
असतस्तु कुतः सिद्धि-रन्तरिक्षारविन्दवत् ॥" पर्यायः पर्यायान्तरतां याति, तदपि १ प्रयोगसा-जीवोद्यमेन २ विस्रसाअभ्रेन्द्रधनुर्वत् सहजात् ३ स्वभावजीवोद्यमाभ्यां बद्धः पट: जीर्णः स्याद्, बन्धनमुद्यमः(मात्) जीर्णीभ[व]नं सहजात् । वृत्तौ प० ३८, पन्नवणा ५ पदे वृत्तौ [द्रव्यास्तिकनयमतेन] परिणामो ह्यर्थान्तरगमनं, न च सर्वथा विनाशः परिणामः । पर्यायास्तिकनयमतेन पुनः परिणमनं पूर्वसत्पर्यायेण नाशः, प्रादुर्भावोऽसता पर्यायेण पर्यायास्तिकनयत इति । वस्तुतस्तु वस्तुपरिच्छित्यै द्रव्यादिरूपेणाऽस्ति, पररूपेण नाऽस्तीति सदसद्विकल्पजालजल्पनेन स्याद्वादः भाषाव्यवहारपथमवतारयितुं सर्वत्राऽबाध्ययुक्तिकानां जैनानामिष्ट एव । यत्र योग्यता नाऽस्ति सङ्गतिमङ्गति तत्र स्याद्वादो न स्याद्(दिति) युक्तियुक्तं स्याद्वादस्याऽपि स्याद्वादत्वम् ।
अथ का योग्यता ? इत्याह - षण्णां द्रव्याणां परिणामपर्यायेणोपचारतः स्याद्वादः । उक्तम् -
"अन्नोन्नं पविसंता, दिता ओगाह अन्नमन्नस्स ।
मेलंता वि अणिच्चं, सगसगभावं न विजहंति ॥" [ ] ३. अन्योन्याभावेन । ४. तादात्म्यात्यन्ताभावेन वन्ध्यापुत्रो नाऽस्ति शुद्धनिश्चयात् । ५. व्यवहारनये । (अन्त्यं टिप्पणं कुत्र सम्बध्यते तद् न ज्ञायते ।)