________________
.
अनुसन्धान-६६
ननु बन्धो जीवकर्मणोः संयोगा(गोऽ)भिप्रेतः । स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयम् । तत्र यद्यादिमानिति पक्षस्तदा कि पूर्वमात्मा पश्चात् कर्म १ अथ पूर्वं कर्म पश्चादात्मा २ उत युगपत् कर्मात्मानौ संप्रसूयेता ३ मिति त्रयो विकल्पाः । तत्र न तावत् पूर्वमात्मसम्भूतिः सम्भाव्यते निर्हेतुकत्वात्, खरविषाणवत् । अकारणप्रसूतस्य वाऽकारणत एवोपरमः स्यात् । अथाऽनादिरेवाऽऽत्मा तथाऽप्यकारणत्वान्नाऽस्य कर्मणा योग उपपद्यते नभोवत् । अथाऽकारणेऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्याऽपि स्यादिति । अथाऽसावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया, बन्धाभावे च मुक्तव्यपदेशाभाव एवाऽऽकाशवदिति ।
नाऽपि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः संगच्छते, कर्तुरभावात् । न चाऽक्रियमाणस्य कर्मव्यपदेशोऽभिमतः । अकारणप्रसूतेश्चाऽकारणत . एवोपरमः स्यादिति ।
युगपदुत्पत्तिलक्षणः तृतीयः पक्षोऽपि न क्षमः, अकारणत्वादेव । न च युगपदुत्पत्तौ सत्या'मयं कर्ता, कर्मेद मिति व्यपदेशो युक्तः, सव्येतरगोविषाणवत्।
अथाऽऽदिरहितो जीवकर्मयोग इति पक्षः । ततश्चाऽनादित्वादेव नाऽऽत्मकर्मवियोगः स्यात् ।
यच्चाऽऽदिरहितजीवकर्मयोगेऽभिधीयमानेऽनादित्वान्नाऽऽत्मकर्मवियोग इति, तदयुक्तमनादित्वेऽपि संयोगस्य विप्रयोगोपलब्धेः ।
जह कांचणोवलसंजोगोऽणादिसंतइगया(ओ) वि ।
वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥ तथाऽनादेः सन्तान[स्य] विनाशो दृष्टः, जीवा(बीजा)ङ्कुरसन्तानवत् । ___अन्नयरमणिव्वत्तिय कज्झ बीयंकुराण जं विहियं ।
तच्छ(त्थ)हओ(?) संतानो(णो) कुक्कुडिअंडाइयाणं च(व) ॥ अनादिबन्धसद्भावेऽपि मोक्षो भवतीति ११ पत्रे स्थानाङ्गवृत्तौ ॥
केचिद् वदन्ति - जीवस्य द्वौ स्वभावौ शुद्धाशुद्धरूपौ । शुद्धेन मोक्षः, अशुद्धेन संसारः इत्यपि न, तयोरन्योन्यं विरोधात्, शीतातपयोरिव, जीवे न