________________
फेब्रुआरी - २०१५
घट(टे?)ते । यथा चेतनाचेतनस्वभावौ स्वरूपत एकस्थानेऽघटमानवत् । संसारस्य नरनारकादिपर्यायः स्वभावः, जीवस्य च शुद्धचैतन्यस्वभावः, तयोरेकत्राऽवस्थानं दुर्घटम् ।
___ यथा शुद्धहेम्नः द्विव्याद्यशुद्धभागजोटकयुक्ते हीनहीनतरादिमूल्यं सम्भवति । यथा [यथा] शुद्धं तथा तथा मूल्यमधिकादि स्यात् । सीसकसंशोधितस्याऽशुद्धभागपृथग्भावेन शुद्धस्वभावं सत् शुद्धमेव हेम भवति । तथा जीवोऽप्यशुद्धसंयोगजन्योपाधिपरिणामपरिणतोऽप्यशुद्धनिश्चयेन नरनारकादिपर्यायपरिणतोऽशुद्ध एव । यदा तु ज्ञानक्रियासीसकप्रायसंशोधितो जीवोऽनादिसंयोगदूरीकरणे मूलस्वभाव एव । यथा द्वयोरङ्गुल्योः संयोगे नष्टेऽङ्गुली तिष्ठतीति(त इति)।
दशवैकालिकश्रीहारिभद्रीवृत्तौ २२(६२) पत्रे - परिणामप्रपञ्चः(?) नित्यानित्यैकान्तपक्षव्यवच्छेदेनाऽऽत्मानं परिणामिनमभिधित्सुराह -
एवं सतो जीवस्स वि, दव्वादी संकमं पडुच्चा ओ ।
परिणामो साहिज्जति पच्चक्खेणं परोक्खे वि ॥
पूर्वार्धं पूर्ववत् । पश्चार्द्धभावना पुनरियम् - न ह्येकान्तदृष्टाऽपि द्रव्यादिसङ्क्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धिः । उक्तं च -
. "नाऽर्थान्तरगमो यस्मात् सर्वथैव नचाऽऽगमः । परिणामः प्रमासिद्ध ई(इ)ष्टश्च खलु पण्डितैः ॥ "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ “पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसव्रतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥" नित्य आत्माऽनादिपरिणामभावादिति स्वभावतोऽनाज्झ(द्य)मूर्तपरिणामित्वात् ई(इ)ति गाथार्थः । ... "एस णं भंते! जीवे तीतमणंतं सासयं [समयं दुक्खी समयं अदुक्खी]
समयं दुक्खी वा अदुक्खी वा पुचि च णं करणेणं अणेगभावं अणेगभूतं - परिणामं परिणमति । अह से वेदणिज्जे(ण्णे) निज्जिणे भवति । तओ पच्छा