________________
३०
अनुसन्धान-६६
एगभावे एगभूते सिया ? हंता गो० ! एस णं जीवे जाव एगभूए सिया, एवं पडुप्पन्नं सासयं समयं, एवं अणागयमणंतं सासयं समयं ॥" - भग० श० १४ उ० ४ ।
- वृत्तौ जीवस्वरूपं निरूपयन्नाह - "एस णं भंते! जीवे त्ति । एष प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चाऽदुःखी सुखी(ख)हेतुयोगाद् बभूव, समयमेव [च] दुःखी वाऽदुःखी वा, वा-शब्दयोः समुच्चयार्थत्वाद् दुःखी च सुखी च तद्धेतुयोगात् । न पुनरेकदा सुख-दुःखवेदनमस्त्येकोपयोगत्वाज्जीवस्येति । एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह - पुवि च णं करणेणं इत्यादि । पूर्वं च एकभावपरिणामात् प्रागेव करणेन कालः(ल)स्वभावादितिका(दिका)रणसंच(व)लितस(त)या शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः पर्यायो दुःखितत्वादि(खित्वादि)रूपो यस्मिन् स तथा । तमनेकभावं परिणाममिति योगः । अणेगभूयं ति अनेकभावत्वादेवाऽनेकरूपं परिणाम- स्वभावं परिणमइ त्ति अतीतकालविषयत्वादस्य परिणतवान्प्राप्तवानी(नि)ति ।
"अह से त्ति । अथ त[द्] दुःखितत्वाज्झ(द्य)नेकभावहेतुभूतं वेयणिज्ज त्ति वेदनीयं कर्म उपलक्षणत्वाच्चाऽस्य ज्ञानावरणीयादि वा(च) निर्जीर्णं- क्षीणं भवति । ततः पश्चात् एगभावे त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्याऽसावेकभावोऽत एव एकभूत- एकत्वं प्राप्तः सिय त्ति बभूव कर्मकृतधर्मान्तरविरहादी(दि)ति प्रश्नः । इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रेऽपी (त्रे अपी)ति ।" ।
पनवणायां विशेषपदे ५मे पर्यायाधिकारः - "जीवपज्जवा य अजीवपज्जवा य । जीवपज्जवा णं भंते! किं संखेज्जा असंखेज्जा अणंता ? गो०! नो संखेज्जा नो असंखेज्जा अणंता । से केणद्वेणं भंते । अणंता ? गोo! असंखिज्जा णेरइया असुरा नागा पुढविआउतेउवाउकाईया अणंता वणस्सईकाइया असंखा बितिचउरिदिया मणुस्सा वंतरा जोइसिआ वेमाणिआ अणंता सिद्धा स(से) तेणद्वेणं गो०! अणंता पज्जवा [सूत्र १०३] ॥" ।
वृत्तिः - "तत्र पर्याया गुणा विशेषा धर्मा इत्यनर्थान्तरम् । औदयि