SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ ३१ कादयश्च जीवाश्रयास्ततो जीवपर्याया एव गम्यते(न्ते) । औदयिको भावः पुद्गलवृत्तिरपि । सम्बन्धपरिमाण(णा)वगमाय पृच्छति - 'जीवपज्जवा णं भंते! किं संखेज्जा ?' इत्यादि । वनस्पतिसिद्धवर्जा नैरयिकादयोऽसङ्ख्येयाः, मनुष्येत्व(ष्व)सङ्ख्येयत्वं संमूच्छिमापेक्षया, वनस्पतयः सिद्धाश्चाऽनन्तास्ततः पर्यायिणामनन्तत्वात् पर्याया अनन्ताः ।" "नेरई(इ)याणं भंते! केवइ(इ)या पज्जवा ? गोo! अणंता । से केणद्वेणं भंते!, गोo! नेरइयाए नेरई(इ)यस्स दव्वट्ठयाए तुल्ले पएसट्ठयाए तुल्ले उग्गाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भहिए ठिइए सिय हीणे सिय तुल्ले सियमब्भहीण(अब्भहिए) [सूत्र १०४] । एतदृत्तिः - "केनाऽभिप्रायेण भगवतैवं निर्वचनमवाचि - नैरयिका(को) नैरयिकस्य द्रव्यार्थतया तुल्य इति ? उच्यते - एकमपि द्रव्यमनन्तपर्यायमेतन्यायप्रदर्शनार्थम् । नारकजीवद्रव्यमेकसङ्ख्याकं नैरयिकस्य द्रव्यार्थतया तुल्यः । पएसट्ठिए त्ति नारकजीवद्रव्यं लोकाकाशप्रदेशप्रमाणप्रदेशमिति नारको नारकस्य तुल्यप्रदेश एवाऽर्थः । द्विविधं द्रव्यं - प्रदेशवदप्रदेशवच्च । तत्र परमाणुरप्रदेशः, द्विप्रदेशादिकं प्रदेशवत् । एतद्द्वयं पुद्गलास्तिकाये एव । शेषाणि धर्मास्तिकायादीनि द्रव्याणि नियमास्स(त्स)प्रदेशानि । 'उग्गाहणयाए त्ति सिय हीणे' इत्यादि । नैरयिकोऽसङ्ख्यातप्रदेशोऽपरस्य नैरयिकस्य तुल्यप्रदेशस्य अवगाहनं- शरीरोच्छ्यः स एवाऽर्थः । तथा सिय हीणे त्ति स्याच्छब्दः प्रशंसाऽस्तित्वविवादविचारणाऽनेकान्तसंशयप्रश्नादिष्वर्थेषु । अत्राऽनेकान्तज्झोति(द्योत)कस्य ग्रहणम् । स्याद्धीनोऽनेकान्तेन हीन इत्यर्थः । स्यात्तुल्योऽनेकान्तेन तुल्यः । स्यादभ्यधिकोऽनेकान्तेनाऽभ्यधिकः । कथमिति चेदुच्यते - यस्माद् वक्ष्यति – रत्नप्रभायां नैरयिकाणां भवधारणीयशरीरस्य जघन्येनाऽवगाहनाया अङ्गलस्याऽसङ्ख्येयो भाग उत्कृष्टतः ७ धनूंषि ३ हस्ता ६ अङ्गुलानि । उत्तरोत्तरासु पृथ्वीषु द्विगुणद्विगुणं यावत् सप्तमपृथ्वीनैरयिकाणां जघन्यतोऽवगाहनाऽङ्गुलस्याऽसङ्ख्य(ख्येयो) भागः, उत्कृष्टतः ५०० धनुःशतानि । तत्र जइ हीणेति चतुःस्थानपतितं ज्ञेयम् । ठिइ(ई)ए सिय हीणे सिय तुल्ले सियमब्भहिए त्ति । एवमेकनारकस्याऽपरनारको(का)पेक्षया द्रव्यतो ... द्रव्यार्थतया प्रदेशार्थतया च तुल्यत्वमुक्तम् । क्षेत्रतोऽवगाहनं प्रति हीनाधिकत्वेन
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy