SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३२. अनुसन्धान-६६ चतुःस्थानपतितत्वम् । कालतोऽपि स्थितितो हीनाधिकत्वेन चतुःस्थानपतितत्वम् ।" “केवलनाणी मणूसे केवलनाणिस्स मणूसस्स दव्वट्टयाए तुल्ले पदेसट्टयाए तुल्ले उग्गाहणट्ठाए चउठाणवडिए ठिईए तिठा (ट्ठा) णवडिए वण (न) रसगंधफासपज्जवेहिं छठा(ट्ठा)णवडिए केवलनाणपज्जवेहिं केवलदंसणपज्जवेहि य तुल्ले ॥" [ सूत्र - ११६] वृत्ति: - " केवलज्ञानसूत्रे तु ओगाहणट्ठाए त्ति केवली (लि) समुद्घातं प्रतीत्य । केवलिसमुद्घातगतः केवली शेषकेवली (लि)भ्योऽसङ्ख्येयगुणा[धिका]वगाहनः, तदपेक्षया शेषाः केवली (लि)नोऽसङ्ख्येयगुणहीनावगाहनाः, स्वस्थाने तु शेषाः केवलिनस्त्रिस्थानपतिता इति । स्थित्या त्रिस्थानपतितत्वं सङ्ख्येयवर्षायुष्कत्वात् । [ इतः परं पन्नवणा ५ पदगत मतिज्ञानादेः परमाणुपुद्गलस्य च पर्यायपरिमाणसम्बन्धिसूत्राणि सवृत्तिकानि यथावदुद्धृतानि सन्ति । तान्यत्र न मुद्रितानि - सं०] तथा मतिज्ञानमभव्यानां नाऽस्ति । गइ १ इंदिय २ काए ३ जोए ४ वेए ५ कसाय ६ लेसासु ७ । सम्मत्त ८ नाण ९ दंसण १० संजय ११ उवओग १२ आहारे १३ ॥ भासग १४ परित्त १५ पज्जत्त १६ सुम १७ सन्नी १८ अ होइ भव १९ चरिमे २० । आभिणिबोहियनाणं मग्गिज्जई एसु ठाणेसु ॥ मतिज्ञानं चतुर्गतौ प्राप्यते १ । पञ्चिन्द्रियेष्वेव प्राप्यते । द्वीन्द्रियादयोऽसम्यक्त्वा, मत्यज्ञानमेव लभ्यते २ । त्रसकायेष्वेव मतिज्ञानम्, एकेन्द्रियत्वेन मिथ्यात्वन उत्पद्यन्ते ३ । मनोवचनकायत्रिकयोगेष्वेव मतिज्ञानं प्राप्यते, एकद्विकयोगयोगे तु मत्यज्ञानमेव ४ । वेदत्रयेऽपि मतिज्ञानम् ५ । द्वादशकषायेऽनन्तानुबन्धि ४ वर्जिते मतिज्ञानं प्राप्यते ६ । पद्मतेजः शुक्ललेश्यासु मतिज्ञानं प्राप्यते ७ । सम्यक्त्ववतो मतिज्ञानम् ८ । मतिश्रुतावधिमन: पर्यवेषु मतिज्ञानं, नतु केवलज्ञाने व्युच्छिन्नं मतिज्ञानम् ९ । चक्षुर्दर्शनादि ४ विषये(?) मतिज्ञानम् १० । चारित्रिणो निश्चयेन मतिज्ञानम् ११ । साकारेऽनाकारे मतिज्ञानम् १२ । यस्मिन् -
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy