________________
फेब्रुआरी - २०१५
समये आहार करोति तत्राऽऽहारकः, भवान्तरे वक्रगत्यादौ अनाहारकः, तत्राऽऽहारकिनो मतिज्ञानं प्राप्यते, अनाहारकिनो मतिज्ञानं न लभ्यते १३ । भाषकस्य मतिज्ञानं लभ्यते १४ । प्रत्येकशरीरिणो मतिज्ञानं प्राप्यते, सूक्ष्माणां तु न १५ । पर्याप्तानां मतिज्ञानं, न त्वपर्याप्तानाम् १६ । [बादराणां मतिज्ञानं, न तु सूक्ष्माणाम् १७ ।] संज्ञिनां मतिज्ञानं, न त्वसंज्ञिनाम् १८ । भव्यानामेव मतिज्ञानं प्राप्यते, न त्वभव्यानाम् १९ । अनन्तेऽपि काले यो मोक्षं यास्यति स चरमशरीरी, तस्य मतिज्ञानम्, अन्ये भव्यत्वेऽपि सामग्यप्रापणदोषेण मोक्षं न यास्यन्ति तेऽचरमास्तेषां मतिज्ञानं न प्राप्यते । उक्तम् -
"सामग्गीअभावाओ ववहाररासीअप्पे(प्प)वेसाओ ।
भव्वा वि ते अणंता जे सिद्धिसुहं न पावेंति ॥" २० द्वारैर्मतिज्ञानस्य सत्पदप्ररूपणा कृता आवश्यकपीठिकायाम् ।
"मइणाणपज्जवा सुअनाणपज्जवा ओहिणाणपज्जवा मणपज्जयणाणपज्जवा केवलनाणपज्जवा ।" [भग० श० ८ उ० २]
तद्वृत्तिः - "पर्यायद्वारे केवइया [इत्यादि] । मतिज्ञानस्य पर्या(य)वाविशेषा(ष)धर्मा-अभिनिबोधिकज्ञानपर्यव:(वाः) । ते च द्विविधा(:) स्वपरपर्याय: भेदात् । तत्र येऽवग्रहादयो मतिविशेषाः क्षयोपशमै(म)वैचित्र्यात् ते स्वपरपर्यायाः (स्वपर्यायाः), ते चाऽनन्ताः । कथम् ? एकस्मादवग्रहादेरन्योऽवग्रहादिरनन्तभागवृद्ध्या विशुद्धोऽन्यस्त्वसङ्ख्येयभागवृद्ध्याऽपरः सङ्ख्येयगुणवृद्धया । सङ्ख्यातस्य सङ्ख्यातभेदत्वादनन्ता विशेषाः तज्ज्ञेयस्याऽनन्तत्वात् प्रतिज्ञेयमथवा मतिज्ञानमविभागपलिच्छेदैर्बुद्ध्या छिद्यमानमनन्तं खण्डं भवतीत्येवमनन्तास्ततपर्यायाः । ये पदार्थान्तरपर्यायास्ते तस्य परपर्यायाः, ते च स्वपर्यायेभ्योऽनन्तगुणाः, परेषामनन्तगुणत्वात् ।
ननु यदि ते परपर्यायास्तदा तस्येति व्यपदेष्टुं न युक्तं, परसम्बन्धित्वात् । अथ ते तस्य, तदा न [पर]पर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वात् ।
अत्रोच्यते - यस्मात् तत्राऽसम्बद्धास्ते तस्मात् तेषां परपर्यायव्यपदेशः, यस्माच्च • ते परित्यज्य-मानत्वेन तथा स्वपर्यायाणां 'स्वपर्याया एते' इत्येवं विशेषणहेतुत्वेन
'इत आरभ्याऽस्मिन्नुद्धरणे बह्वी पाठच्युतिः । अभ्यासार्थिना वृत्तिर्द्रष्टव्या - सं. ।