________________
अनुसन्धान-६६
च तस्मि-न्नुपयुज्यन्ते तस्मात् तस्य पर्यवा इति व्यपदिश्यन्ते । यथाऽसम्बद्धमपि धनं स्वधनमुपयुज्यमानत्वादिति ।
अनन्ताः श्रुतज्ञानपर्यायाः स्वपरभेदाद् द्वेधा । तत्र स्वपर्या[या] ये श्रुतज्ञानस्य स्वगता अक्षरश्रुतादयो भेदास्ते चाऽनन्ताः, क्षयोपशमवैचित्र्यविषयानन्ता (न्त्या) भ्यां श्रुतानुसारिणां बोद्धा(धा)नामनन्तत्वात् । [पर]पर्यायास्त्वनन्ताः सर्वभावानां प्रति[ती]ताः । - ये मनःपर्ययज्ञानस्य केवलज्ञानस्य [च] स्वपर्याया ये स्वाम्यादिभेदेन स्वगता विशेषास्ते चाऽनन्ता अनन्तद्रव्यपर्यायपरिच्छेदापेक्षयाऽविभागपलिच्छेदापेक्षया चेति ।
अल्पबहुत्वे मतिश्रुतावधिमनःकेवलानां केवलज्ञानपर्याया अनन्तगुणाः, सर्वद्रव्यपर्यायविषयत्वात् तस्येति भगवतीशतके ८ उद्देशः ३(२) आत्मा ८ अधिकारः (?) । भगवतीशतके १२ उद्देश १० ॥
इति श्रीस्याद्वादचर्चाप्रमाणं समाप्तम् । ग्रन्थाग्रं ३६० ॥
टिप्पणात्मकान्युद्धरणानि
पत्र-१
* प्रवचनोड्डाहरक्षणार्थं गुरुलाघवपर्यालोचनेन मृषा भाषमाणः साधुराराधक एव ।
"सच्चमेयं भासजायं बीयं मोसं तईयं सच्चामोसं चउत्थं असच्चामोसं । इच्चाइ चत्तारि भासज्जायाई आउत्तं भासमाणे आराहए णो विराहए ।"
(प्रज्ञा० भाषा पद ११) * पर्याया गुणा धर्मा विशेषा इत्यनर्थान्तरम् । औदयिकक्षायोपशमिक
क्षायिकौपशमिका जीवपर्यायाः । औदयिकभावः पुद्गलवृत्तिः । पन्नवणा ५ पदे ।
पत्र-४ * "जीवे णं भंते! इंदिआई पडुच्च [किं पोग्गली] पोग्गले ? गोo! जीवे