Book Title: Anusandhan 2015 03 SrNo 66
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ अनुसन्धान-६६ त्वादयः । जीवस्तु "अवण्णे अगंधे अरसे अफासे" इति प्रज्ञापनायां व्यक्तमेव। यथा - धर्मास्तिकायस्य चलनगुणः १ अधर्मास्तिकायस्य स्थितिगुणः २ आकाशस्याऽवकाशगुणः ३ कालस्य वर्तनागुणः ४ जीवस्योपयोगगुणः ५ पुद्गलस्य ग्रहणगुणः ६ । ग्रहणं परस्परेण बन्धनं जीवेनै(वस्यौ)दारिकादिभिरिति वृत्तौ भग० शत० २ उद्दे० १ । ग्रहणसाहचर्यान्मोचनमपि । तेन पूरणगलनधर्मा पुद्गलः सिद्धः । तथा च पुद्गलस्यैकगुणकालत्वादयः सादयोऽपर्यवसाना भवन्ति । द्रव्यार्थिकनये सिद्धगुणपर्यायास्तादात्म्यरूपाः स्वस्वरूपा एव । यथा कतकक्षोदेन समलजलस्य मलस्याऽधोभावेन स्वाभाविकी स्वच्छता । असत उत्पादाभावाद् व्योमारविन्दवत् । ततः स्वरूपतः सिद्धानामुत्पादव्यय[वत्]त्वं दु - त्वमेव । अथ जीवकर्मणोरनादिसम्बन्धाद् जीवस्य स्वभावशक्ति-विभावशक्तिद्वयैः(शक्ती) सदैव' सर्वत्र' सहचारिण्यौ भवत इति मन्यन्ते केऽपि । तदयुक्तं सिद्धान्ताभिप्रायापरिज्ञानात् । नित्यसहजानन्दैकाखण्डामृतरसमय आत्मा स्वभावस्थः । अशुद्धपरिणामो हि मोहनीयादिकर्मपरमाणुसंयोगजन्यो विभावः स्पष्ट एव । ततो विरोधव्याघातशङ्कुगणावकाश एव । तदुक्तं परमात्मप्रकाशवृत्तौ - "आत्मा शुद्धद्रव्याथिकनयेन शुद्धोऽपि. सन् अनादिसन्तानागतज्ञानावरणीयादिकर्मबन्धप्रच्छादितत्वाद् वीतरागनिर्विकल्पसहजानन्दैकसुखास्वादमलभमानो व्यवहारनयेन त्रसो वा स्थावरो वा भवति, तेन जगत्कर्ता भण्यते । नाऽन्यः कोऽपि परकल्पितः परमात्मेति अयमेव शुद्धात्मोपादेयः ॥" - ४० गाथा "द्रव्यार्थिकनयेन भावाभावरहितो वीतरागनिर्विकल्पसदानन्दैकस्वभावसमाधिना जिनवरैर्देहेऽपि दृष्टः ॥" - ४४(४३)गाथा "निश्चयनयेन कर्मैव बन्धं च मोक्षं च करोति, न त्वात्मा किमपि, नित्यत्वात्, नित्यस्याऽकिञ्चित्करत्वात् । यद्यप्यनुपचरितासद्भूतव्यवहारेण द्रव्यबन्धमशुद्धनिश्चयेन भावबन्धं मोक्षं च करोति, तथापि न शुद्धपारिणामिकपरमभावग्राहकेन(ण) शुद्धनिश्चयेन करोति ॥" - ६५ गाथा "व्यवहारेण जीवस्य बन्धमोक्षौ स्तः, निश्चयेन मोक्षो नाऽस्तीति चेत् १ सर्वकालम् । २. मुक्तावस्थादौ । ३. अनादिसंयोगान्मोहादेः।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182