Book Title: Anekant 1948 11 12
Author(s): Jugalkishor Mukhtar
Publisher: Jugalkishor Mukhtar

View full book text
Previous | Next

Page 10
________________ ४१४ ] अनेकान्त न्यायाऽऽयातवचोऽनुसार-धिषणैरात्मान्तरं मन्यते यैस्तैव(स्तै)चितमेव देवपरमं दिग्वाससां शासनम् ॥ २६ ॥ श्रीदेवीप्रमुखाभिरर्चितपदाम्भोजः सुरा (मुदा)पि कचित् कल्याणेऽत्र निवेशितः पुनरतो नो चालितुं शक्यते । यः पूज्यो. जलदेवताभिरतुल - सनर्मदा - पाथसि श्रीशान्तिर्विमलं स रक्षतु सदा दिग्वाससां शासनम् ॥२७॥ पूर्व या श्रममाजगाम सरितां नाथास्तु दिव्या शिला तस्यां देवगणान् द्विजस्यं दधतस्तस्थौ जिनेशः स्थिरम् । कोपाद्विप्रजनावरोधनगरे देवैः प्रपूज्याम्बरे दधे यो मुनिसुव्रतः स जयतादिग्वाससां शासनम् ॥२८॥ जा(ज्या)यानामपरिग्रहोऽपि भविनां भूयाद्यदि श्रेयसे तत्कस्यास्ति न सोऽधमोऽपि विधिना स्वस्तदर्थं मतः । क्षीणारम्भपरिग्रहं शिवपदं को वा न वा मन्यते इत्याऽऽलौकिकभाषितं विजयते दिग्वाससां शासनम् ।।२६॥ सिक्ते सत्सरितोऽम्बुभिः शिखरिणः सम्पूज्य देशे वरे सानन्दं विपुलस्य शुद्धहृदयैरित्येव भव्यैः स्थितैः । निर्ग्रन्थं परमर्हतो यदमलं बिम्बं दरीदृश्यते यावद्द्वादशयोजनानि तदिदं दिग्वाससां शासनम् ॥३०॥ धर्माधर्म-शरीर-जन्य-जनक-स्वर्गापवर्गादिके सर्वस्मिन् क्षणिके न कस्यचिदहो तद्वन्ध-मोक्ष-क्षणः । । । इत्याऽऽलोच्य सुनिर्मलेन मनसा तेनापि यन्मन्यते बौद्धनाऽऽत्मनिबन्धनं हि तदिदं दिग्वाससां शासनम् ॥३१॥ . यस्मिन् भूरिविधातुरेकमनसो भक्तिं नरस्याऽधुना तत्कालं जगतां त्रयेऽपि विदिता जैनेन्द्रबिम्बालयाः । प्रत्यक्षा इव भान्ति निमलहशो देवेश्वराऽभ्यचिता विन्ध्ये भूरुहि भासुरेऽतिमहिते दिग्वाससां शासनम् ॥३२॥ आस्ते सम्प्रति मेदपाटविषये ग्रामो गुणग्रामभूर्नाम्ना नागफणीति तत्र कृषता लब्धा शिला केनचित् । स्वप्नं वृद्धमहार्जिकामिह ददौ स्वाकारनिर्मापणे स श्रीमल्लिजिनेश्वरो विजयते दिग्वाससां शासनम् ॥३३॥ श्रीमन्मालवदेश - मङ्गलपुरे म्लेच्छः प्रतापागतैः भग्ना मूतिरथोऽभियोजित-शिराः सम्पूर्णतामाऽऽययौ। यस्योपद्रवनाशिनः कलियुगेऽनेकप्रभावैर्युतः स श्रीमानभिनन्दनः स्थिरयते दिग्वाससा शासनम् ॥३४॥ इतिहि मदनकीर्तिश्चिन्तयन्नाऽऽत्मचिने विगलति सति रात्रेस्तुर्यभागार्द्धभागे। कपट-शत-विलासान् दुष्टवागन्धकारान् जयति विहरमाणः साधुराजीव-बन्धुः ॥३५॥ SEEEEEEEEEEEEEEEEEEEGGSal इहि रहसनाबरमी (चतुस्मिंशिका) समाप्ता। Jain Education International 2014 -.-.-.www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88