Book Title: Agam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 573
________________ १८२ उत्तराध्ययन- मूलसूत्रम् - २ - ३० / १२०४ खेडे कब्बडदोणमुहपट्टणमडंबसं बाहे ॥ वृ.क्षेत्रामौदर्यमाह प्रसति गुणान् गम्यो वाऽष्टादशानां करणामिति ग्रामस्तस्मिन्, नामत्र करोऽस्तीति नकरं तस्मिन्, तथा राजाऽनया धीयत इति राजधानि - राज्ञः पीटिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्नेकविधभाण्डानीति निगमः प्रभूततरवणिजां निवासोऽनयो: समाहारस्तस्मिंश्च, आकुर्वन्ति तस्मिन्नित्याकरो - हिरण्याद्युत्पत्तिस्थानं तस्मिन्, 'पल्लि'त्ति सुब्व्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनो जना इति पल्ली, नैरुक्ता विधिः, वृक्षगहनाद्याश्रितः प्रान्तजननिवासस्तस्यां खेट्यन्ते - उत्रास्यन्तेऽस्मिन्नैव स्थितैः शत्रव इति खेटं--पांशुप्राकारपरिक्षितम्, उक्तं हि - " खेडं पुण होइ धूलिपायारं" तस्मिन् कर्बटं - कर्बटजनावास:, कुनगरमित्यर्थः, द्रोण्योनावो मुखमस्येति द्रोणमुखं-जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिर्वा, पतन्ति तस्मिन् समस्तदिग्भ्यो जनाइति पत्तनं, तच्च जलपत्तनं यज्जलमध्यमवर्त्ती, यथा काननद्वी,: स्थलपत्तनं च निर्जल भूभागभावि यथा मथुरा, 'मडंब 'त्ति देशीपदं यस्य सर्वदिवर्द्धतृतीययोजनान्तर्ग्रामो नास्ति, समिति - भृशं बाध्यन्तेऽस्मिन् जना इति संबाधः - प्रभूतचातुर्वर्ण्यनिवास:, कर्बटादीनां चात्र समाहारद्वन्द्वस्तस्मिन् । मू. ( १२०५ ) आसमपए विहारे संनिवेसे समायघोसे य । थलिसेणाखंधारे सत्थे संवट्ट कोट्टे य ॥ वृ. आ - सन्मात् श्राम्यन्ति तपः कुर्वन्त्यस्मिन्नित्याश्रमः - तापसावसथादिस्तदुपलक्षितं पदं - स्थानमा श्रमपदं तस्मिन्, विहारो - भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन्, 'संनिवेशे' यातप्दिसमायातजनावासे, समाज : -- पथिकसमूहः घोषो-गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'च: ' समुच्चये, स्थल्याम् उच्च भूभागे सेना-चातुरङ्गबलसमूहः स्कन्धावारः स एवाशेपखेडाद्युतलक्षितोऽनयोः समाहारे सेनास्कन्धावारं तस्मिन, 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्त्तन्ते-पिण्डीभवन्तस्मिन् भयत्रस्ता जना इति संवर्त्तस्तस्मिन् कोट्टं - प्राकारो ऽनयोः समाहारे संवर्त्तकोट्टं तस्मिन् 'च: ' समुच्चये, क्षेत्र प्रस्तावादिह समाजिकादिषु च क्षेत्रमेवोपलक्ष्यते । मू. ( १२०६ ) Jain Education International वाडेसु य रत्थासु य घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई एवं खित्तेण ऊ भवे ॥ वृ. 'वाडेसु' त्ति वाटेषु पाटेषु वा वृत्तिवण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु' रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेषु, सर्वत्र वा विकल्पे, 'एवमित्यनेन हृदयस्थप्रकारेण 'एत्तिय 'न्ति 'एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः ' पूरणे, एवमादि, आदिशब्दाद्गृहशालादिपरिग्रहः, 'एव' मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः ' पूरणे भवेदममौदार्यमिति प्रक्रमः ।। पू. ( १२०७ ) पेडा य अद्धषेडा गोमुत्ति पयंगवीहिया चेव । संबुकावट्टाययगंतुं पच्छागया छट्टा ॥ वृ. पुनरन्यथा क्षेत्रावौदार्यमाह - 'पेड'त्यादि, अत्र च सम्प्रदाय: - "पेडा पेडिका इव चउकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपडिवाडी गोमुत्तिया वंकावलिया पयंगविही अणियया For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704